________________
चतुर्थोऽधिकार
[ २६१
श्रुत्वेति राजा प्रामे पुरे स्वसेवकान् प्रेध्य मुखमार्गितं धनं दायं दायं पृथिवीमनृणीं चकार । ततस्तस्य संवत्सरो टिप्पणके शास्त्रेषु लिखितो बुधैः ।।
इति नवीनसंवन्सरप्रवर्त्तने विक्रमार्कसम्बन्धः ॥४७८॥
[ 479 ] अथ शत्रुजयतीर्थवालने मल्लवादिसम्बन्धः । खेटपुरे देवावियद्विजस्य सुभगा पुत्री विधवाऽभूत् कस्मादपि गुरोः सौरं मन्त्रं प्राप 5 तदा सौरो मन्त्रो ध्यातः । ततः सूर्योऽभेत्य भुक्तवान् , सगर्भाऽभूत् ता तादृशीं दृष्ट्वा मातृपितभिह विकता । सा च सूर्यागमनं प्राह-तथापि मात्रादिभिर्न मानितं कर्षिता । सा च वलभी पुरीं गता काले तया पुत्रपुत्र्यौ जनिते, क्रमाद्ववर्धते लेखशालिकरपुत्रक इति प्रोक्ते मातरं स पप्रच्छ मम कः पिता माताऽवग---सूर्यस्ते पिता ध्यातस्तेन सोऽभेत्य तस्मै पुत्राय ककरं ददौ प्राह च यस्ते पराभवं करोति सोऽनेन कर्करेण हतो मर्त्ता, स च कर्करः पश्चात्त- 10 वान्तिकं समेष्यति । ततः स पराभवकर्तारं तेन हन्ति । ततः स बालवधकारकः श्रुतो वलमीशेन । ततः स भूपेन पराभूतः । ततस्तं स हत्वा राजाऽभूत् तस्य शिलादित्यनामाऽभूत् । ततः शिलादित्य स्वां भगिनी भृगुपुरे भूपाय ददौ, तया च सुतोऽसावि सुदिने इतः शिलादित्यो बोद्धैः स्वधर्मः ग्राहितः, श्रीशजयं तीर्थ बौद्धा आत्मीयं चक्रे । इतः शिलादित्यभगिनी भर्तरि मृते सपुत्रा सुहस्तिसूरिपार्वे चारित्रं जग्राह । स च बालकोऽष्टवर्षीय: 15 सामाचारी कुशलो विनीतोऽभूत् प्राज्ञश्चाभवत् । एकदा मातरं पप्रच्छ अल्पः श्रीसंघः कथं ? माताऽवग-श्वेताम्बरा देशात्कर्षिताः शिलादित्यभूपो वलभीपुरीस्वामी बौद्धः कृतः शत्रुजयतीथमपि गृहीतं तैः, पूर्व संघ। बहुरभूत् स च शिलादित्यभूपस्तव मातुलोऽस्ति इति श्रुत्वा बालः कुपितोऽम्बादेवीमाराध्य बहुविद्यावान् मल्लगिरौ तपश्चक्रे कतिपयदिनैः शासनदेवी प्रसन्नाऽभूत् प्राह च के मिष्टाः, सोऽवग् मम वल्लाः ततस्तया ध्यातमयं तपस्वी नीरसाहार 20 पाचनात् । ततः पुस्तकं दत्त्वा देव्योचे अमुं पुस्तकं वाचय सर्वान्वैरिणो जेष्यसि । ततो मलवादोति त्वं नाम्नास्याः। ततः स प्राप्तविद्यो वल्लभ्यां समेत्य बौद्धान् विजित्य शिलादित्य भूपं प्रबोध्य श्रीशत्रुजयं तीर्थं वालयामास बौद्धा देशान्निष्काशिताः । ततो गुरुभिः सूरिपदं ददे तस्य [तस्मै] 1 इति शत्रुञ्जयतीर्थवालने मन्लवादिसंबंधः ॥४७९।। [480] अथ हरिभद्रमुरिदीक्षारिपदसम्बन्धः ।
25 चित्रकूटे हरिभद्रो विप्रश्चतुर्दशविद्याविशारदः सर्वशास्त्रार्थ विन्दते । ततः प्रतिज्ञा चक्रे-यस्योक्तस्यार्थं न जाने तस्याहं शिष्यो भवामि । एकदा स रात्रौ पुरमध्ये व्रजन् साध्युपाश्रयान्ते गतः । तदा साध्वी श्रीआवश्यकगाथां जगौ
चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दुचक्की केसिअचक्की अ ॥१॥
30
"Aho Shrutgyanam'