________________
द्वितीयोऽधिकारः
[२११
10
दैवयोगात् ।
इतः सा ब्राह्मणी स्वस्वभर्तृवर्णनं कुर्वाणाभ्यः स्त्रीभ्यः [प्रति] प्राह--मदीयो भर्ता नागपुण्डरिकः स च यद्वाल्छयते तत्तत्पूरयति । एतत् श्रुत्वा ताश्यस्तस्याः स्त्रियः पृष्टौ गत्वा नागपुण्डरीकं धृतवान् प्राह च--रे दुष्ट ! कुत्र यास्यसि मम पार्थात् १ तदा स स्वस्त्रीप्रोक्तं ज्ञात्वा नागपुण्डरीको जगौ--
स्त्रीणां गुह्यम् न वक्तव्यं, प्राणैः कण्ठगतैरपि ।
नीयते पक्षिराजेन, नागपुण्डरिको यथा ॥१॥ एतज्जल्पन स स्वस्थाने नीत्वा तायण निगृहीतः । इति स्त्रीणामग्रे गुह्यम् न वक्तव्यमिति विषये नागपुण्डरीककथासम्बन्धः ॥३८७॥
[388 ] अथ पश्यतोहरसौवर्णकारसम्बन्धः । ___ कस्मिंश्चित्पुरे सौवर्णिको दुर्बलो भूपेन दृष्टः पृष्टश्च तव दुर्बलत्वं किं दृश्यते ? सौवर्णिको जगौ-हेम न दृश्यते । राजा जगौ-हेम दर्शयिष्यते तुभ्यं, तदा त्वं मत्तो भविष्यसि । स जगौ-हेम दृष्टं यदि तदाऽहं मत्त एव !
ततो राज्ञा हेममयी ५२ पलमयी स्थालिका दर्शिता । ततः सौवर्णकारको यत्र सा स्थाली धाव्यते तत्र कर्कशां वालुकां क्षिप्तवान् छन्नं । ततः स सुवर्णकारकः तां वालुकां लात्वा 16 गालयित्वा सुवणेसंकुलं कृतवान् , मत्तोऽभूच्च ।
राज्ञा पृष्टमेतत्कुतः प्राभृतीकृतं । सोऽवग-राजा तुष्टः। राजा प्राह-कथमहं तुभ्यं तुष्टः! ततः स प्राह--स्वामिन् ! या ५२ पलहेमस्थाली विद्यते सा तोल्यतां । ततो राज्ञा तोलापिता ४४ पलमयी जाता स्थाली । ततो पारितोषिकदानं ददौ तस्मै ।
इति पश्यतोहरसौवर्णकारसम्बन्धः ॥३८८।। [389 ] अथ दानपरीक्षायां ईश्वरपार्वतीसम्बन्धो लौकिकः । ईश्वरपार्वत्यौ पृथिवीचेष्टितं विलोकयितुं निर्गतौ । पार्वती जगौ-लोकाः सर्वे दानिनो विद्यन्ते। ईश्वरोजगौ-नैवं । ततो लोकपरीक्षार्थ तापसरूपं कृत्वा एकस्य कौटुम्बिकस्य गृहे गतौ। प्रातः तदा तस्य पत्नी कछडकं बन्धयित्वा जानुदध्नकदमे भ्रमन्ती, छगणं क्षेपयन्ती, गोरसं सर्वबलेन विलोक(डयन्ती, विश्राममगृहानां दृष्ट्वा प्रोचतुः-भिक्षा देहि । तदा कौटुम्बिका 25 जगौ-किं सिक्ककायां वसितो, यतः प्रातरेव भिक्षाय आगतौ युवा, निःकर्माणौ स्थः। अस्माकं कार्याणि विद्यन्ते अधुना, परिवारिता नास्मि ।
ईश्वरो जगौ-तब ईदृशं गोमहिषोधनं अष्टगुणं. भवतु । इति जस्पित्वा ततोऽये गच्छन्ने
"Aho Shrutgyanam"