________________
१९२ ]
प्रबन्धपश्चशती
प्रासादे बहवः कर्मकरा आयान्ति, वप्रे च नायान्ति | राज्ञा वारि निषिद्धं । श्रेष्टिना तैलकूपानुद्घाट्य माषपीठकेन प्रासादः कत्तुमारब्धः । राज्ञा तत् ज्ञातं । संमानितः श्रेष्ठी । सहस्रस्तम्भमयः प्रासादो निष्पन्नः । प्रतिष्ठाऽभूत् । तत्रात्मीयात्मीयां कलां दर्शयितुं सूचिकायाचिकाभ्यां च कीर्तिस्तम्भोपरिस्थाभ्यां भूस्थसूचिप्रोतन भूस्थतैलभाजनभरणादिकला दर्शिता प्रासादाने । इति प्रजाश्रेष्ठिकारितप्रासादसम्बन्धः ॥३४५||
[ 346 ] अथ पूनसिंहकोष्ठागारिककारितगिरिनारतीर्थप्रासादसंबंधः । तपागच्छाधिराजश्रीरत्नशेखरसूरीणामादेशात् श्रीगिरिनारतीर्थे पूनसिंहकोष्ठागारिको महान्तं प्रासादं कारयामास । तत्र श्रीऋषभदेवं प्रातिष्ठिपत् । तत्र बहुलझटङ्ककधनव्ययः ।।
इति पूनसिंहकोष्ठोगारिककारितगिरिनारतीर्थप्रासादसम्बन्धः ॥३५६।। 10
[847 ] अथ साधर्मिकभक्तिः । राजा कुमारपालः त्रुटितसाधर्मिकस्य समीपागतस्य दीनारसहस्रं दत्ते । आमडमन्त्रिपाश्र्वात गुरूणां च ज्ञापितं राशा यदुचितः साधर्मिको झाप्यः ।
एकदा वर्षलेखके कृते एका कोटिर्जाता । यदा तदा आभडः प्राह-स्वामिस्तव द्विधा कोशोऽस्ति, एकः स्थावरोऽन्यो जङ्गमः । अहं तु जङ्गमः कोशस्तेनाहं यद्ददामि तत्तवैव । राज्ञोक्तं एवं 15 त्वया विनयेन प्रोच्यते । यन्मया मम कोशाहीयते तदेव पुण्याय । ततो राजा हटः। आभई विशेषाद्वहु मन्यते स्म । एवं भूपाभिग्रहो वहुवर्षाण्यभूत् ।
इति साधर्मिकभक्तिः ॥३४७।। [348] अथ दाने कुमारपालमन्त्रि-अभयकुमारश्रेष्ठिकथा । अन्यदा श्रीश्रीमालज्ञातिशिरोरत्न नेमिनागपुत्रः अभयकुमारः श्रेष्ठी कृतो राज्ञा । 20 अत्रान्तरे श्रीपालपुत्रेण सिद्धपालेनोक्तं---
क्षिप्तो तोयनिधेस्तले मणिगणः रत्नोत्करः रोहणे,
__रेवावृत्य सुवर्णमात्मनि दृढं बवा सुवर्णाचलः । क्ष्मामध्ये च धनं निधाय धनदो विभ्यत्परेभ्यः स्थितः,
किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् ॥१॥ ता जुत्तं देवकयं, तुमए जं इत्यधम्मठाणंमि ।
अभयकुमारो सिट्ठी, एसो सव्वेसरो विहिओ ॥२॥ तत्र साधर्मिकभक्तिरेवम्
25
"Aho Shrutgyanam"