________________
१८० ]
प्रबन्धपश्चशती
भाण्डागार लीलिखत् । ८४ प्रासादाः कारिताः । श्रीगिरनार महातीर्थे युगपदेव श्वेताम्बर दिगम्बरः श्रीसंघः प्राप्तः । श्वेताम्बरदिगम्बराणां मिथः तीर्थविवादोऽजनि । संघपतिद्वयस्यापि मध्ये यः इन्द्रमालां परिधास्यति तस्य तीर्थमिदमिति । वृद्धचतुर्जनोक्तौ पेथडसंघपतिना सुवर्णस्यैव ५६२१ घडी प्रमाणस्येन्द्रमाला परिधापनं चक्रे । तीर्थं च स्वकीयं कृतं येन धर्मघोषसूरोणां 5 पार्श्वे परिग्रहपरिमाणं पूर्व गृहीतं टङ्ककद्वयशतप्रमाणाभिप्रहे सति पुरुषभाग्यं निःसीमत्वमिति । श्रीगुरुवचनेन लक्षत्रयप्रमाणद्रव्याभिग्रहो गृहीतः । ततोऽप्यधिकद्रव्यप्राप्तौ देवगुरुयोग्यमिति नाम दत्तं । द्रव्ये तस्य सुतः झांझणदेवः समजनि । तेन श्रीशत्रुब्जयगिरिनारमहातीर्थयोरेकैव ध्वजाः पञ्चवर्णाः स्वर्णरूप्यपट्टकूलादिमया दत्ता । तेन राजाधिराजस्य सारङ्गदेवस्य जेमनानन्तरं कर्पूरार्पणसमये द्विहस्त योजनप्रभृतिविधानं कारितं । एकः प्रासादो देवगिरौ 10 कारितस्तत्र अष्टौ कोट्यः षण्णवतिलक्षाः ८४ सहस्रदोररजुषाणानामुपरि चटनार्थं एकलक्षटङ्काatra | इति पेथडप्रबन्धः ॥ ३२० ॥
[ 321 ] अथ सम्प्रतिप्रबन्धः ।
।
सम्प्रतिभूपेन सपादको टिजैनप्रतिमाः कारिताः । सपादलक्ष जैनप्रासादाः कारिताः सिन्धुदेशमध्ये मरोटग्रामे ९५ सहस्रप्रतिमाः पित्तलमया अद्यापि सन्ति । ७०० दानशालानां [ यां] 15 येन स्वकीया वण्ठाः साधुसामाचारी शिक्षयित्वा साधुवेषेण सर्वत्र देशमध्ये प्रथमं प्रेषिताः पश्चात्सत्यसाधवः प्रेषितास्तत्रानार्यदेशे । ३६ सहस्रनवीनाः प्रासादाः । अन्येऽन्यत्र बहवो जीर्णोद्धाराः कारिताः । बहुविस्तरपूर्वं रथयात्रा । इति सम्प्रतिप्रबन्धः || ३२१ ॥
[322] अथ कुमारपालप्रबन्धः ।
श्रीपतने श्रीकुमारपालेन पितुस्त्रिभुवनपालस्य प्रासादः कारितः । ७२ देवकुलिकायुतः, 20 २४ प्रतिमा रत्नमयाः, २४ प्रतिमाः पित्तलस्वर्णमयाः, रूप्यमयाः १४ । १४ भारमयाः मुख्यप्रासादे १२५ अङ्गुलप्रमाणारिष्टरत्नमयीप्रतिमा कारिताः । तत्र द्रव्यव्ययः ६६ लक्षमाणः । सर्वत्र स्वर्णमयाः कलशाः । आसादे आम्बडमन्त्रिणा मङ्गलप्रदीपावसरे ३२ लक्षा दीनाराणां याचकेभ्यो दानं दत्तं । लक्षमध्ये दानं न यस्य कुमारपालस्य |
इति कुमारपालप्रबन्धः || ३२२||
25
[323] अथ वस्तुपालदानप्रबन्धः ।
तथा श्रीवस्तुपालेम हेममया लक्षटङ्का आरात्रिकावसरे दत्ता याचकेभ्यः । खीजनावसरे सोमेश्वरेणोक्तमिदं काव्यम्-
इच्छामि द्विसमन्विते सुरगणे कल्पद्रुमैः स्थीयते,
पाताले पवमानभोजनजने कष्टं प्रन[ण]ष्टो बलि
"Aho Shrutgyanam"