________________
१७८ ]
प्रबन्धपञ्चशती
गौरविता: वासनं स्थिताः । प्रातः प्रतिलेखनावेलायां प्रतिलेखनां भाणयित्वा सर्वे साधवः प्रशक्किकां यतनयोचार्य प्रतिलेखनां कर्तुमुपविष्टाः, तदा तादृशी सामाचारी दृष्टा जिनप्रभसूरयो जगुः । धर्मोऽधुनाऽत्र विजयते । तदा एकस्य यतेगुब्छकादिवस्त्राणि आखुना भक्षितानि । तेन साधुना गुरुणां (भ्यः) तानि (दर्शितानि) ततश्चमत्कारार्थ श्रीजिनप्रभसूरिमिः प्रोक्तंशालास्थैरुन्दरैः सर्वैरत्रागम्यम् ! ततः क्षणात्सर्वे उन्दरा आगताः, संमुखहस्तौ योजयित्वा स्थिताः । गुरुभिः प्रोक्तं-यैः साधुशिक्किका भक्षिताः तेऽत्र तिष्ठन्तु अन्ये न तिष्ठन्तु। अद्यप्रभृति अन्यायो न कार्यः । ततस्तेऽपि सर्वेषां साधूनां पदेषु पतित्वा स्वस्थाने गताः ।
इति स्वकौशल्यदर्शने जिनप्रभसूरिकथा ॥३१४॥
[315] अथ भक्त्यभक्तिविषये भ्रातद्वयकथा । 10 श्रीपुरात् द्वौ सोदरौ श्रियै निर्गतौ । कस्मिंश्चिन्नगोपान्ते कस्यचित् सिद्धपुरुषस्य पार्वे
तुम्बकबीजानि प्राप्य तेषां माहात्म्यं पप्रच्छतुः। तेन शुद्धनरेण प्रोक्तं-क्षेत्रं झतवारं कृष्यते बीजानि तत्र पुष्या रोप्यन्ते, तेषां तुम्बकानां फलानि पत्राणि छायायां शुष्यन्ते । ततश्चूर्ण क्रियते । नम वह्निना रक्षा क्रियते । ६४ गदीआनकत्रपुमध्ये एकगदीआनकं क्षिप्यते स्वर्णभवति ।
ततस्तौ तानि लात्वा गृहे आगतौ वृद्धेन भ्रात्रा शुद्धपुरुषोक्तविधिना भक्तिपूर्वकं शुद्धपुरुषनाम16 स्मरणपूर्वकं स्वर्णं कृतं । लघुभ्राता अवहीलनपूर्व 6 वारकर्षितक्षेत्रे शुद्धपुरुषोक्तविधिना रूप्यं
चकार । बीजानि तु रक्षितवान् , वृद्धभ्राता तु तानि रक्षितबीजानि पुनरुप्त्वा स्वर्ण चक्रे । ततो यावजीवं सुखी जातः । लघु ता तु एकवारं रूप्यं कृत्वा तच्च भक्षित्वा दरिद्रो जातो दुःखी च । एवं च गुरूक्तं बहु मन्यते स सुखी स्याद् वृद्धभ्रातृवत् । यस्तु गुरूक्तमवमन्यते स लघुभ्रातृवद् दुःखी भवति । इति भक्त्यभक्तिविषये भ्रातृद्वयकथा ॥३१५॥
[316] अथ साधुशकुने मित्रद्वयकथा । द्वौ सुहृदौ मार्गे चलितो। वर्त्मनि साधू मिलितो । वृद्धेन साधू वन्दितौ । लघुना तु हसितौ साधू । ततोऽये गच्छतो वृद्धस्य श्रीपुरे अपुत्रमृतभूपस्य राज्यमभूत् । अपरस्य ज्वरश्चटितः । चिरं मोघं मुक्त्वा मृतः ।
इति साधुशकुने मित्रद्वयकथा ॥ ३१६ ॥ 25
[317 ] अथ अवहेलनायां भरटककथा । एकस्मिन् ग्रामे भरडको वसति स्म । इत आसन्नग्रामे भीमकौटुम्बिकेन बहवो लोका जेमनायाकारिता सन्ति । ततः पत्नी भरटकं पतिं प्रति प्राह-त्वं क्षेत्रे गच्छसि । यदि कदाचित्तव जेमनायाकारणमागच्छति तदा क उत्तरो दीयते ? तेनोक्तं--अस्य पापिनो गृहे को याति ! यदि कदाचिदायात्याकारणं तदा प्रोच्यम् । अस्मिन्नासन्नक्षेत्रे भरटकोऽस्ति । एवं
"Aho Shrutgyanam"