________________
द्वितीयोऽधिकारः अतो वयं न शूद्राः किन्तु वैश्या, यदि वयं शूद्रा भवामः तदा वणिजां गृहे द्विजा प्रतिप्रह न गृहणन्ते, यतः
अधीत्य चतुरो वेदान्, साङ्गोपाङ्गान् सलक्षणान् । शूद्रात्प्रतिग्रहं कृत्वा, खरो भवति ब्राह्मणः ॥७॥ खरो द्वादशजन्मानि, पष्टि जन्मानि शूकरः ।
श्वानः सप्ततिजन्मानि, इत्यैवं मनुरब्रवीत् ॥८॥ इति भनुपुराणे । एवं श्रुत्वा राजा विप्रान् निराकृत्य सूरेनिं ददौ ।
इति आम्रभूपयप्पभट्टिगुरुमाननसम्बन्धः ॥२६२॥
[283] अथ जीर्णोद्धारे धनसारकथा । यत्तणमयीमपि कुटी, कुर्याद्दधात्तथैकदिवसमपि ।
भक्त्या परमगुरुभ्यः, पुण्योन्मानं कुतस्तस्य ॥१॥ राजगृहे धनसार-गुणसारौ द्वौ बान्धवौ । वृद्धस्य धनी प्रिया शीलादिगुणशालिनी, लघोः कालो पत्नी परं दुष्टत्वेन कालिकैव । काल्या वचसा लघुः पृथग्भूय मुख्यगृहे बलास्थितः । वृद्धस्त्वपरगृहे कर्मयोगाल्लघोः श्रीवली, वृद्धस्याल्पा श्रीः ।।
एकदा प्रामान्तरवासिनः शिलकुट्टका ऐयुस्तत्र काली वर्यवेषां वीक्ष्य ते पप्रच्छुः कोऽत्रास्ति 15 प्रासादादिकारयिता । तदा तया धनमदेन हास्यार्थं धनसार एष आवासं कारयिष्यति । ततस्ते धनसारगृहे गताः । धन्या पृष्टा किं कुरुथ यूयं ? तैरुक्तं-वयं प्रासादं कुर्मः। तदा तत्र कान्तोऽपि आगात् । कान्तेन काली हास्यादिवचः प्रोक्तं । ततो धन्या स्वाभरणानि दत्त्वा प्रासादो जीपण: समुद्धृतः । प्रतिष्ठाधनार्थ धनसारो देशान्तरं गच्छन् मार्गे कस्यापि सिद्धपुरुषस्य मिलितः । तदुक्तकल्पविधिना योगिना सार्द्ध योगिकृतमाहिषीपुच्छदीपिकोद्योतेन श्रीपर्वतगुहायां प्रविष्टः । 20 अन्तरा वृश्चिकभ्रमरादिभिरुपसपितोऽपि न खिन्नः । ततः स्त्रीभिरुपसर्गितो नाचालीत् शोलात् । साहसत्वेनापतो गतः योगी खोक्षुब्धस्तत्रस्थः शतखण्डोकृतः । धनसारस्तु गुफान्तरे हेममयं सप्तभूमावासं हेममयखद्ध(,?)न्दोलकसिंहासनं ददर्श । तत्रत्यदेवेन संमानितः प्रोक्तं त्वं मम भ्रातृतुल्योऽसि । पूर्वभवेऽहं जिनदास इभ्योऽभूवम् । मयैप प्रासादः कारितः, स त्वयोद्धृतः । ततो रत्नानि कोटिमूल्यानि लझमितानि दत्त्वोत्पाद्य स्वगृहे धनसारो मुक्तः । कार्यऽहं स्मरणीयः । 25 तदनु प्रतिष्ठामहोऽभूत् । संघगुरुभक्तिश्च काल्याः स्वर्ण जिह्वा कारिता । संघेन पृष्टं किं त्वया काल्या ईदृशी जिह्वा कारिता ? साऽवग-कालीजिह्वाप्रसादात् जीर्णोद्धारप्रतिष्ठाधनाप्तिरभूत् । ततोऽनिझं सप्तक्षेच्या व्ययित्वा धनसारः सप्रियः स्वर्गे गतः मुक्ति यास्यति ।
इति जीर्णोद्धारे धनसारकथा ॥२६३॥
"Aho Shrutgyanam"