________________
प्रथमोऽधिकार
[ ११९
यास्यति । इति निद्रव्यपुण्यविषये सिंहधनसम्बन्धः ॥१९५।।
[196 ] अथ पट्टकूलिकानयनचाहडमन्त्रिसम्बन्धः । बम्बेरकपत्तनस्वामिना राज्ञा वीसलदेवेन पत्तने श्रीकुमारपालभूपालाय पट्ट (दु] कूलवयं प्रीतिप्राभृतकृते प्रेषितं । तच्च राज्ञा कुमारपालेन गृह देवालये धौतिकं कृतं । राजा च तद् दुकूलं परिधाय देवं पूजयामास । इतोऽन्यदा बाहडपुत्रेण दशवार्षिकेण तदेतद्वस्त्रं परिधाय रन्तुं लग्न 5 बालकैः सह रममाणस्य सप्ताष्ट दिना जाताः। राजा तद्वस्त्रं मलिनं दृष्ट्वा जगौकेनेदं व्यापारितं ? से वकैरुक्तं बाहडसनुना चाहडेन । ततो राज्ञा शिक्षा तस्मै दत्ता कठोरवचसा, ततश्चाहडो रुष्टो भूपपार्थे नायाति ।
अन्यदा राजा बाहडः पृष्टः-चाहडः कथं न दृश्यते ! बाहडोऽवग-वखव्यापारणव्यतिकरं । ततो राज्ञा चाहड आकारितः पृष्टश्च किमर्थं त्वया सभायां नागम्यते ? तेन स्वपराभवस्वरूपं 10 प्रोक्तं । राजा प्राह - त्वया दुःखं न कार्य । अपरं वस्खं व्यापारयिष्यते। ततश्चाइडः प्राह-त्वं मे स्वामी अतस्त्वया मह्यं शिक्षा दत्ता यत्तद्वरं अद्य दिनात्तव सभायां मया तदागम्यम् । यदा पट्टकूलानि एवंविधानि आनेष्यन्ते बहूनि । अहं बम्बेरकपत्तने यास्यामि । राझोक्तं-बम्बेरेशो वीसलदेवभूयो बलिपुष्टो विद्यते । तस्य दुर्गनपुमयो विद्यते । परिख ज्वलदङ्गारमयी तस्मिन्वप्रमध्ये सप्तशतानि पट्टकूलिकानां सन्ति । वीसलदेवस्तेभ्यः पट्टकूलानि लास्वा द्रव्येण स्वयं परिधाय ..15 देशान्तरे प्रेषयति विक्रेयाय । पुरावाहिस्तानि स्तोकान्येव निस्सरन्ति मागस्तु विषमोऽस्ति तेन तत्र गमनं दुष्करं । चाहडोऽवग्-मया द्वितीयवारं तदा जेमनीयं यदा वीसलदेव जित्वा पट्टकूलकारका अत्रानेष्यन्ते परे तव प्रसादात ततो हष्टो भपो बहबलं ददौ । तस्मै प्राह च-वत्स ! त्वं लघुरसि । तेन यत्नेन युद्धं कार्य । चाहड आचष्ट-स्वामिस्त्वया काऽपि चिन्ता न कार्या । मम हृदये एकः श्रीवीतरागो देवोऽपरश्च भवान् विद्यते तेन सद्यः स जेष्यते । ततश्चाहडः सुमुहूर्ते 20 प्रथमं जिनालये जिनं प्रणम्य, ततो राजान, ततो मातापितरौ प्रणम्य चचाल चाहडः। मार्गे वर्याः शकुना जाताः ! प्रथमं मरुस्थली साधिता । तेऽपि राजानम्तेन सार्द्ध चेलुः । ततोऽन्ये देशा एवंविधनामानः साधिताः । तथाहि
जंगडूर जड़हार अज्जपुरनराणी, नवणवाहनग्गउरो नरहनरवरजिट्ठाणओ ।
25 सज्जवडसरिवाड़ भग्गउ सयंभरि,
वग्धेरो लडणूर हुओ झुरि बबेरो । पीपल उरपहुक्कररासपुर मंडलपुरमेवलतूकरि वीसलनारि
बलिवइ अबललंकदाह चाहडमकरि ॥१॥ ___ एवं देशान् साधयन् चाहड: ग्रामपुराणि लुण्टयन ज्वलयंश्च बम्बेरापुरोपान्ते यदागतः 30 तावतो वीसलराजः प्राह-भो प्रिये ! एष धूमः कुतोऽजनि ? जातः प्राह--
"Aho Shrutgyanam"