________________
यस्याः क्षेत्रं वनं वापी कूपस्सरित् सरोवरम् । ग्राम-नगर- गिर्यादि सर्वं तीर्थमयं स्थितम् ॥ मेवाडाख्या प्रसिद्धा या स्वर्गादपि गरीयसी । जन्मभूमिर्मदीया सा मातृतुल्या प्रियंकरा ॥ तस्याः पुण्यपवित्रायाः सत्कीर्तिमूर्तिमन्दिरे । करोम्यहं कृतेरस्याः सद्भक्त्या वै समर्पणम् ॥