________________
सुभाषितत्वेनाभाणकत्वेन च लोके प्रसिद्धा, सुभाषितसंग्रहेषु च मुद्रिता केचन वाक्यसमुदायास्तु कच्चरपरीवाहस्तरीया । स्त्रीणामवमाननया पुरुषाणामुद्धटत्वप्रदर्शनमेतेष्वतीव साधारणं वस्तु । वस्तुतस्तु काव्येषु यथा उत्तम-मध्यमाधमत्वं तथा 'सु'(?)भाषितेष्वप्याभाणकेष्वपि!
“पतिरस्तु लम्पटो मद्यपायी वा तस्य पादयोः प्रक्षालनं प्रतिदिनं पल्या करणीयम्" इति स्त्रीणामुपदेशनां कुर्वाणानां पद्यानां संकलनं नवीनेष्वपि केषुचन 'सुभाषित'(?)संग्रहेषु दृष्टं मया ।हंहो ! “रोगिणीम् उन्मत्तां दोषैरनेकर्दूषितामपि पत्नी पतिर्न त्यजेद्" इति वा, “पति पत्न्यां सदाऽपि स्निह्येद् ” इति वा 'सु'भाषितेष्वेतेषु कदाऽपि नोच्यते ! वस्तुतस्तु इतिहासपुराणादिकं युद्धादिवर्णनाद् भाषासौष्ठवाद्वा श्लाघ्यं, न पुनरेतादृशानां सुभाषितानां कारणात्। एवंभूताः श्लोका इतिहासे पुराणेषु च वर्तन्तां नाम, तेन किम् ? श्लोकेष्वेतेषु भूयान् ‘आदर्शो' वर्तत इति घोषयितृणां मध्ये केचिदात्मानं संस्कृतज्ञत्वरूपधर्मवन्तं ख्यापयन्त इति तु गण्डस्योपरि विस्फोटः । ते प्रष्टव्या-रामलक्ष्मणादयः पाण्डवादयश्च युद्धविद्यायां निपुणतमा इति यत् प्रतिपाद्यते रामायणे भारते च तत्र किमिति भवद्भिः कटाक्षो न पात्यते ? किमर्थं वा भवन्तः सैनिका न बुभूषन्ति ?
पञ्चतन्त्रे वर्तमानाः काश्चनाश्लीला कथा: कामुकै पुरुषैर्वान्ता इत्यत्र न संशयः । तासु कथासूद्धृतानां केषाञ्चन पद्यानां भावा अनार्येधूर्तेर्वा श्लाघ्या न पुनराय: । मत्के ग्रन्थभवनेऽस्मिंस्तादृशानां प्रवेशावकाशो निर्दाक्षिण्यं न्यषेधि।
"तर्हि भवता सृष्टानाम् आभाणकानां सर्वेषां ग्राह्यत्वं कथम् ?" इति प्रश्न सहजः । अत्रेदं प्रामाणिकमुत्तरम् :-प्रकरणवशान्मम प्रतिभातानामाभाणकानामयं संगहः । अत्रत्यानां सर्वेषां वाक्याभिप्रायाणां सज्जनगेयत्वस्य परमोत्कृष्टस्तरे वर्तमानत्वस्य वा प्रतिपादयितुमशक्यत्वेऽपि जुगुप्साधायिनोऽर्थाः प्रयत्नादत्र पर्यहारिषतेति तु कञ्चित् स्वभुजास्फालनस्य हेतु: स्यात् । लोकानुपदेष्टुं मादृशस्य साधारणस्य जनस्य का वाऽस्त्यर्हता ? वाक्यानां भङ्गीवैचित्र्यमेव ग्रन्थेऽस्मिन् प्रधानतयाऽवधेयो धर्म ।
वैयक्तिका केचनानुभवाः, श्रुता घटना, दृष्टानि दृश्यानि,पठितेषु साहित्येष प्रतिक्रियाः,जगदेवंप्रकारकं भूयादिति स्वप्न, एवं वर्तत इति वास्तविकी दृष्टिमबष्टभ्य कृतं विश्लेषणं, विषादो, विनोदश्च-एतत् सर्वम् आभाणकत्वधर्म लम्भितमत्र।
जीवनं कया दिशा द्रष्टव्यमित्यत्र दर्शनमते न कारयन्ति। जीवनं कथं वर्तत इति ज्ञानार्थ वास्तविक जीवनमेवानुभवितव्यम्। आभाणका एते तु जीवनं कया दिशा मया दृष्टमित्यस्य पञ्जीकृतयः ।
नूतनानाम् आभाणकानां जन्मने प्रेरणामेतेष्वाभाणकेषु यच्छत्सु,तावता संतोष्टव्यम् । एतेषु केचन गर्जन्ति, केचन तर्जयन्ति, केचन फूत्कुर्वन्ति, केचन जागरयन्ति, केचन ताडयन्ति,केचन पाडयन्ति केचन स्फुलिङ्गान् उत्सृजन्ति, केचन च चपेटिकां यच्छन्ति । पठितेष्वेतेषु मनसः कालुष्यं विनश्यतीति केनापि न भमितव्यमिति सुविस्पष्टं निवेदितमधस्तात्।
सुभाषितेष्विवाभाणकेष्वष्यभिधालक्षणे प्रधाने । व्यञ्जना बिरला । शास्त्रेषु पुनर्बजनाया एवावसरो नास्ति, किमुत ध्वनेः ? "न सर्वत्र ध्वनिरागिणा भाव्यम्" इति आनन्दवर्धनीयं वचनं श्रुत्वाऽपि, पठितेषु सर्वेष्वपि साहित्येषु, किंबहुनाभगवद्गीतायामपि ध्वनिमन्वेषमाणाः नोपदेष्टव्याः । वस्तुतस्त्वत्र लोका एवंप्रकारकदृष्टिवैविध्यवन्त एवेति समाधेयम्। “मुण्डे मुण्डे मतिभेद" इति वर्तत एव कश्चन प्राचीनाभाणकः ! "ध्वनिरहितं किमपि पद्यं रघुवंशे नास्ति' इति कदाचिद् गर्जितवान् कश्चित् सज्जनो मम पुरस्तात्।तादृशसज्जनपितृव्या दिव्यचक्षुष्काः केचन सर्वेवाभाणके व्यजना पश्येयुश्चेत् किमपि नाश्चर्य तत्र । किमनेन द्राविडप्राणायामेन? एष सार:आभाणकावभिधालक्षणयोरेव विजृम्भणम् । तेषु व्यञ्जना नैव समस्तीति प्रतिपादयितुमशक्यत्वेऽपि सा लज्जालुमनुष्यदर्शनभीतेव वन्या हरिण्यतीव बैरल्येनात्मानं दर्शयते।
आभाणक इत्यर्थे कन्नडे वर्तमानो गादेशब्दो गाथाशब्दमूलक इति तावदविवादम् । गाथाशब्दश्च संस्कृतप्राकृतोभयगोचरः। अत्र प्राकृतगत एव गाथाशब्दे कन्नडदोषज्ञानां धिषणापक्षपातः । अधीदंविषयं मामकीनोऽयं पर्यनुयोगप्रकार: