________________
[८९-९०]
आभाणकजगन्नाथः
९.
रचितं सर्वं रामायणं न, सृष्टं सर्वं सुभाषितं न । १०. रुचिरे कर्मणि रचिते जगति
प्रचिता कीर्तिः सुचिरं जयति ॥
११. विनयः स्वनति ।
१२. शातकुम्भेन कुम्भकरणं नाडिन्धमस्य कार्यं न
कुम्भकारस्य ।
१३. शोचिष्केशे ज्वलति सहसा शष्कुली भर्जनीया ।
१४. सद्बुद्धीनां सरस्वत्येव सुभाषितम् ।
१५. सभासु विजृम्भस्व, स्वभाभिर्वर्धस्व ।
१६. सामान्या अपि स्वसिद्ध्या भूमान्या भवन्ति ।
१७. सुभाषितं कत्थते स्वयं तु विवहते !
१८. सुभाषितं श्रुत्वा कुभावनां धरति । १९. सुभाषितमेव सुजनस्यायुधम् ।
२०. सुव्याहारेण सुव्यवहारः । २१. सूकरः किं सुभाषितं जानाति ? २२. हितोपदेशो वा हतोपदेशो वा ?
[१२०१]
९०. आभाणकः
१.
आभाणकहीनैः का भा संभाषणे ?
२.
आभाणकं बोधि साम्राज्यं शाधि ।
८९.१०. प्रचिता संपुञ्जिता । ८९.१२. शातकुम्भेन सुवर्णेन । नाडिन्धमस्य-स्वर्णकारस्य । ८९.१३. शोचिष्केशे-अग्नौ । शष्कुली भक्ष्यविशेषः । अनुकूलायां परिस्थिती झटिति तस्योपयोगं कुर्यादिति भावः । ८९.१७ कत्यते-गर्वपूर्वकमात्मानं श्लाघते ।
आभाणकजगन्नाथः
३. आभाणकं विना का भारती ? आभाणकमादत्ते श्रीभाग्यान्याधत्ते । आभाणकशास्त्रं तव भारति ! शस्त्रम् ।
४.
आभाणके सति को भारः ? आभाणकैरारोग्यम् । आभाणकैरालोकः ।
५.
६.
७.
८.
आभाणको भूभानुः ।
९.
१०. आभाणको भूभूषणम् ।
११. काले भणित आभाणके व्यालेशस्यापि शिरो दोलायते ।
१२.
भजाभाणकं भुवो नाणकम् । १३. भणाभाणकं गुणाधायकम् । १४. लाभापेक्षुराभाणकं भाषेत ।
१५. शोभाहीनानाम् आभाणकेन मानः ।
१६. सुखमाभाणकभेदैः सर किं स्याद् बहुवेदैः ? १७. स्वैरं रचितानाभासान् आभाणकवचोभिराशु हर । १८. हास्यैराभाणको प्रस्तरं पुष्पीकरोति । [१२१९]
९१. वाग्व्यवहारः
१.
एका छुरिका द्वे शकले।
२. जिह्वा प्रह्वा जागरूका जगत्याम् ।
९०. १६. सुखं सर- गच्छ इत्यन्वयः । ९१.२. प्रह्वा नम्रा ।
[९०-९१]
८३