________________
[८२-८२]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
[८२-८३]
७. क्षिप्तमस्तिष्केषु उत्क्षिप्तवदाचरेत् । ८. क्षुब्धा देवा लुब्धा भक्ताः । ९. गर्दभेऽपि पुच्छं घोटकेऽपि पुच्छम् । १०. गेहेपण्डितस्य सभाध्यक्षत्वे गोष्ठेपण्डित प्रमाणम् । ११. घूकानां नर्तने भेकानां संगीतसंगीतिः। १२. चर्पटसदृशः कर्पट। १३. जामात्रा शष्पिञ्जरे भक्षिते श्वशुरेण शिंशपा
कबलीकृता। १४. तिन्त्रिणीफलेन दाडिमस्य विवादः । १५. दुष्टाय देवाय धूर्तो देवलः ।। १६. नम्रा बुद्धिः कम्रा वाणी। १७. पुच्छेन लालं युयुजे। १८. पोषिते मूले पल्लवो हसति। १९. मर्कटध्याने मण्डूक साक्षी। २०. मुसलेन ह्रदे लक्षिते दण्डेन गिरिलकित । २१. मृगाधिपस्य वनेषु शक्तिः,मूषिकस्य बिलेषु युक्तिः । २२. यावान् गरिमा तावाल्लँधिमा। २३. वाचालानामाचार्यों वाचाट। २४. शाखिन: शाखा न भारः, पर्वतस्य प्रस्तरो न भारः ।
२५. शीधुं चूषय त्वम्, आसवमास्वादयाम्यहम्। [१०५१]
८३.वैसादृश्यम् आकार: सुवर्णोऽप्याचारो दुर्वर्णः । २. उद्धरामीति वदतः शिरस उत्पाटयामीति वदत्पुच्छम् । ३. उद्बल्यं पूतिगन्धि फलपुष्पं मधुरगन्धि।
कपर्दिकाधीश्वरस्य कनकाधीश्वर इति संज्ञा । कुवेणी किं कुसुमगन्धं सूते ? खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः। गजस्य शुण्डया गरुडस्य को लाभ ? घोरभैरव्या क्षीरदेवीत्यभिधानम् ।
जिनापणे झषमौल्यं जिज्ञासते। १०. जोषमुपविष्टानां देवानां पुरस्ताद् ोषभीषणा भक्ताः । ११. डिण्डिमभाषी पटहभाषिणं नीचैः शंसितुं
प्रार्थितवान्। १२. देव इति नामधेयं, दौर्जन्यं भागधेयम् । १३. नक्रमुखी वक्रमुखीम् अपहसति। १४. नरं चिकीर्षुर्वानरं चकार। १५. निर्जितरते सुन्दरीमणे कनीनिकैव नास्ति। ८२.२५.शीधुं-मद्यभेदम् ।आसवं-मद्यभेदम् । ८३.३.उद्वल्यम- उद्भिजानां बल्यम्-Tonic for plants= Manure मया सृष्टोऽयं शब्दः । पूतिगन्धि-दुर्गन्धि । ८३.५.कुवेणी-मत्स्याधानार्थ पिटकः । ८३.९.झष8मीनः । ८३.१५.कनीनिका-अक्षिगोलकम् ।
८२.९.घोटके-अश्वे । ८२.११.संगीति:-गोष्ठीत्यर्थे प्राचीनः प्रयोगः । बौद्धसंगीति: स्मर्यताम् । ८२.१२.चर्पट:-जीर्णवस्त्रम् । कर्पट:-जीर्णवस्वम् । ८२.१३.शपिञ्जरे-तृणभेदे । ८२.१५.देवल-अर्चकः ।