________________
[१३-१३]
आभाणकजगन्नाथः
३१. निःश्रेणिकया किं वृक्षविहारविदग्धस्य वानरस्य ? ३२. निकृष्टे स्वकीये स्वर्णे नाडिन्धमा न निन्दनीयाः । ३३. निरुत्साहानाम् उरुगायः पन्थाः शय्या | ३४. निर्घृणानामपि नाडी स्पन्दते ।
३५. निशितबुद्धिं शास्त्राणि नमस्कुर्वन्ति ।
३६. निशिताऽपि छुरिका न्यग्रोधं न छिनत्ति ।
३७. पङ्केऽवलोकिते पङ्कजमवलोक्यते ।
३८. पटच्चरे गतो मानः पट्टचीरदानादपि न निवर्तते ।
३९. परशुविद्या पामरहृद्या ।
४०. पर्पटीमुत्पाट्य पर्वतमुत्पाटय ।
४१. पीडायामपि पन्थानं पश्यन्ति पटुबुद्धयः ।
४२. प्रत्नं भाषितं शस्तं प्रत्यग्रं भूषितं शस्तम् ।
४३. प्रत्यग्रहरिणापेक्षया पुराणः शशको वरम् । ४४. प्रसरन्तं पूतिगन्धम् अररं न प्रतिरुणद्धि ।
४५. प्राप्तमेव पुरु पुण्यम् ।
४६. फाले ताडिते फलं न खात् पतति ।
४७. बुद्ध्यनुसारं भक्षय मा जिह्वानुसारम् ।
४८. भूते सदा वर्तमानाः प्रेता भवन्ति ।
४९. मधु न स्रवति मरिचफलात् ।
१३.३३.उरुगायः-श्रेष्ठैर्गेयः स्तुत्य इति यावत् । वैदिकोऽयं शब्दः । १३.३८ पटच्चरे- जीर्णवस्वे । १३.४२. प्रत्नं- प्राचीनम् । प्रत्यग्रम्-नवीनम् । १३.४४.अररं-कपाटम् । १३.४५. पुरु-अधिकम् । १३.४६. फाले- ललाटे । खात्आकाशात् ।
१४
आभाणकजगन्नाथः
५०. मरणमेव मनुजानां शरणम् अन्तिमम् ।
५१. महतां महान् क्लेशः ।
५२. महाबलिनोऽपि कदाचिन्महाक्रोशं मुञ्चन्ति । ५३. महाभ्यासेन मायां मर्दयेत् ।
५४. मुसलो हलं दृष्ट्वा मुखं साचीकरोति । ५५. मूषिकं जित्वा मृगाधिपं जय ।
५६.
यतोऽस्ति वृषावाक्, ततो न मृषावाक् ।
५७. रथो न चलति रत्नगर्भा विना ।
५८. राज्ञा गृहीता राराजन्ते ।
५९. रोषवतामग्रे जोषमुपविश । ६०. लब्धमेव ललितम् ।
६१. लोकोद्धारे शोकोऽनल्पः ।
६२. वद सत्यं, वह कुणपम् ।
६३. वर्म नास्ति धर्मदेवतायाः ।
६४. वस्त्रशुद्धौ निर्णेजक एव निर्णेता । ६५. विदुरान्नीतिश्चतुराद् भीतिः ।
६६. विश्वं वीक्ष्य विरोधं विजयस्व । ६७. व्याघ्रे तृणं खादति, वराहः किं करोतु ? ६८. शाखासु चङ्क्रमणं शाखामृगाणां प्रकृतिः ।
[१३-१३]
१३.५४.साचीकरोति-वक्रीकरोति । १३.५६. वृषा वाक्-वीरवाणी । वैदिकोऽयं शब्दः । १३.५७. रत्नगर्भा - भूमिम् । १३.५९. जोषम् - गात्रसंयमपूर्वकम् । १३.६२. कुणपम्-शवम्। १३.६४ निर्णेजक:- रजकः ।
१५