________________
मनसा वचसा चैवं देहेन धर्मपालनम् । कर्वाणा तीव्रसंस्कारा-धानं कर्वन्ति चेतसि ॥९॥
धर्मप्रवृत्तितो धर्मा-ऽऽचारसत्त्वं विवर्धते । उल्लासो वर्धते धर्मे कौशलं जायते नवम् ॥१२॥
शुभानामेव भावाना-मनुभावाः शुभप्रदाः । धर्माचारेण पुण्येन विधीयन्ते निरन्तरम् ॥१३॥
गुणानामुद्भवः स्थैर्यं विकासो धर्मतो भवेत । धर्मो हि गुणधारिण्यां महामेघो मतोऽमलः ॥९४॥
दोषाणां क्रमशो हानि-विनाशोऽनुद्भवस्तथा । धर्मेणैव भवेद् धर्मस्सदाशुद्धिकरो मतः ॥१५॥
धर्मश्रद्धां विधायैवं करोमि हितमात्मनः । मदीयेन विलम्बेन हन्त हानिर्मम स्वयम् ॥१६॥
श्रीसंवेगरतिः