________________
७०
अल्पं धर्मं प्रकुर्वाणो धर्मिणं मनुते निजम् । श्रीमन्तं कुरुते सोऽयं वित्तेनाल्पेन किं निजम् ॥८५॥
महानगरनिर्दाही दारुणो वह्निरुद्धतः । एककुम्भजलेनैव शीतलेन न शाम्यते ॥८६॥
तथैवाऽनादिसंसार-संस्कारा आत्मनिस्थिताः । अत्यल्पेनैव धर्मेण न क्षाल्यन्तेऽतिचिक्कणाः ॥८७॥
सम्भवे सति कर्तव्या धर्मवृद्धिर्निरन्तरम् । शक्तयः परिवर्धन्ते तासामेव प्रयोगतः ॥८८॥
अमोघं पुण्यबन्धानां कारणं धर्म उच्यते । विशुद्धाशयतः पुण्यं भवेत् पुण्यानुबन्धकम् ॥८९॥
कर्मणां निर्जराकारी धर्म एव निरुच्यते । सकामनिर्जराहेतुस्स ज्ञानपूर्वको भवेत् ॥९०॥
श्रीसंवेगरतिः