________________
सत्स्वपि चेन्निमित्तेषु स्यान्नेयं भाव्यमानता । तदा सर्वनिमित्तानां वैफल्यमेव जायते ॥२५॥
रागद्वेषतरंगाणां प्रवाहो योऽपि वर्तते । भाव्यमानत्वजातोऽयं प्रभाव-प्रतिभाववान् ॥२६॥
आदर्श सम्मुखस्थानां प्रतिबिंबं निरीक्ष्यते । तज्जन्या चित्तभावास्तु तत्र लभ्याः कुतस्तमाम् ॥२७॥
इत्थं हि विषयोत्पन्नां विहाय प्रतिभावनाम् । केवलं ज्ञानरूपेण सुखं स्थातव्यमात्मना ॥२८॥
शरीरानाश्रयेणैकः कर्महीनो निरामयः । आत्मा वसत्वयं मोक्षे दधन् निर्भाव्यमानताम् ॥२९॥
दुःखादन्या सुखादन्या परमाऽस्ति प्रसन्नता । निरपेक्षा निमित्तेभ्यो मोक्षेऽनन्ताऽऽत्मचारिणी ॥३०॥
श्रीसंवेगरतिः