________________
वार्धक्यश्रान्तदेहस्य शय्यामात्रस्थितेर्यथा । उत्थानादिविचारोऽस्ति प्रवृत्तिस्तु न दृश्यते ॥१९॥
एवमेकाक्षजीवानां प्रतिभावेषु सत्स्वपि । देहानुरूप्यवंध्यत्वाद् न वर्तन्ते प्रतिक्रियाः ॥२०॥
सदा संगो निमित्तानां भाव्यमानत्वमात्मनः । प्रतिभावसमुत्पादः संसारस्य पदत्रयम् ॥२१॥
भाव्यमानत्वसापेक्षावन्यौ स्तस्तेन धर्मिणा । भाव्यमानत्वविषये कर्तव्यं परिवर्तनम् ॥२२॥
आत्माऽयं चेतनाशाली देहेन्द्रियमनोमयः । प्रतिकूलानुकूलेषु संवेदेषु प्रवर्तते ॥२३॥
मामानन्दोऽभवत् किंवाऽनिष्टं मामिदमापतत् । इत्याकारविचाराणा-मुद्बोधो भाव्यमानता ॥२४॥
३
श्रीसंवेगरतिः