________________
२८
अपामत्युग्रसूर्याद्यैर्वेदना स्यान्निसर्गजा । स्नानरसवतीपाक-प्रमुखैर्मनुजोत्थिता ॥७॥
अग्नेर्वर्षादिकैर्बाधा महावातैर्निसर्गतः । यन्त्रनिक्षेपणाद्यैश्च भवेन् मानवनिर्मिता ॥८॥
वायोर्भूमिधरास्फाल-मुखो नैसर्गिकः श्रमः । नौ-कूपस्तम्भवस्त्राद्यैस्तथा मानवजः श्रमः ॥९॥
वनस्पत्याश्चक्रवातैरुग्रो घातो निसर्गजः । पुष्पमालादिनिर्माणैर्विचित्रो मानवादृतः ॥१०॥
निगोदे जन्ममृत्यूनां सातत्यं कर्मनिर्मितम् । एवं हि स्थावरेष्वस्ति निमित्तानामुपस्थितिः ॥११॥
नन्वेतेषां निमित्तानां काः दृश्यन्ते प्रतिक्रियाः । स्थावरेष्विति चेदत्र ब्रूमः सम्यग् निशम्यताम् ॥१२॥
श्रीसंवेगरतिः