________________
यथा कर्मोदयाल्लब्धः कायो भिन्नोऽस्ति कर्मतः । तथा सापेक्षभावेन संस्काराः कर्मतः पृथक् ॥४९॥
मोहनीयोदयावस्था-रूपां हि ममतां यथा । स्वातन्त्र्येणैव संस्कार-रूपामाहुर्मनीषिणः ॥५०॥
ममतायाः परित्यागस्योपदेशोऽपि दीयते । तत्र संस्कारनाशस्य मुख्यता न तु कर्मणः ॥५१॥
ननु संस्कारनाशेन कर्मनाशो भवेन्न वा ? । भवेच्चेत्तर्हि कर्मैव बाध्यं किं तस्य चिन्तया ॥५२॥
न भवेच्चेत्ततो व्यर्थं संस्काराणां विसर्जनम् । तत्संस्कारपरित्याग-कथयाऽलं विचित्रया ॥५३॥
श्रूयतामत्र संस्कार: कार्यरूपो निगद्यते । कर्मणां कारणत्वञ्च तयोर्नैकत्वसाधकम् ॥५४॥
श्रीसंवेगरतिः