________________
नैतद् विज्ञायते काले कलौ कैवल्यवर्जिते । ततो दःखागमे कार्य प्राधान्याच्चित्तरक्षणम् ॥४३॥ युग्मम्
चितेनानुभवन् जीवः सौख्यदुःखमयं जगत् । संस्काराणामनादीनां करोति प्रतिवर्तनम् ॥४४॥
कर्मानुवर्तिनः सर्वे संस्कारास्तावदात्मनि । न काञ्चित् शोभनावस्थां सुयोग्यां स्थापयन्त्यरम् ॥४५॥
कर्मभ्यो यदि संस्कारा भिन्नतां नावहन्ति तत् । कथं स्वतन्त्ररूपेण संस्काराणां निरूपणम् ? ॥४६॥
कर्मणैव हि भावाना-माविर्भावो यथातथम् । योद्धव्यं धर्मिणा तस्माद्-नूनं कर्मोदयं प्रति ॥४७॥ युग्मम्
तत् सत्यं, केवलं जीवो निश्चितैरेव कर्मभिः । यथा विचारयेद् यद्यत् तत् संस्कारस्य लक्षणम् ॥४८॥
श्रीसंवेगरतिः