________________
२
प्रथमः प्रस्तावः
आत्मनः कर्मणा योगः संसारो वास्तवो मतः । एतद्योगविनाशाय धर्मो दिष्टो जिनेश्वरैः ॥१॥
आत्माऽयं वर्ततेऽनादिः कर्मयोगोऽप्यनादिमान् । आत्माऽनन्तो कर्मयोगेऽनन्तता वाऽपि सान्तता ॥२॥
अधर्मापन्नवृत्तीनां कर्मयोगो निरन्तकः । सान्तस्तु कर्मसंयोगो धर्मसंपन्नचेतसाम् ॥३॥
कर्मयोगो दृढो येन तमधर्मं प्रचक्षते । कर्मयोगः श्लथो येन तं सद्धर्मं जगुर्जिनाः ॥४॥
कर्मणामुदयावस्था संसार: सांप्रतो मतः । कर्मणामात्मनि-स्थत्वं तस्याः कारणमुच्यते ॥५॥
आत्मना बध्यमानत्वं कर्मणां चास्य कारणम् । तद्बन्धस्यावरोधाय मुख्यो धर्मो विधीयते ॥६॥
श्रीसंवेगरतिः