________________
१२२
यावत् कर्मक्षयो नास्ति तावद् दुःखं प्रवर्तते । संजाते कर्मनाशे तु कुतो दुःखपरम्परा ॥५५॥
शरीरं लालितं नित्यं दुःखकाले प्रकम्पते । दृढेन मनसा शिक्षाम् - आपन्नं तु न खिद्यते ॥५६॥
क्रीडायुद्धादिदृष्टान्तात् कायः सहनतत्परः । स्वसंकल्पोपमानेन भवेद् दुःखेऽपि सौख्यवान् ॥५७॥
सह्यते यन्न दुःखं तद् दुर्बलत्वं मनःस्थितेः । मनसः सत्त्वशालित्वं निर्मातव्यं सुखेच्छुना ॥५८॥
श्रीवीरभगवानर्हन् यावद् द्वादशवर्षकम् । उपसर्गान्निरुच्चारं सहित्वा तीर्थपोऽभवत् ॥५९॥
व्याघ्रीदन्तैर्नष्टदेहो महासाधुः सुकोशलः । आत्मैकध्यानवान् यातो मोक्षमानन्दसागरम् ॥६०॥
श्रीसंवेगरतिः