________________
स्वीकुर्यामहमेतानि ममातीतोत्थितान्यरम् । मया कृतस्य भोक्तव्यं फलं ननं मयाऽखिलम् ॥४९॥
कर्माणि मम नश्यन्ति सहमानोऽस्मि चेदहम् । आत्मनो भारमुक्तत्वं चाविर्भवति सुन्दरम् ॥५०॥
मय्यभ्यागतदुःखेभ्यो-ऽन्यानि दुःखानि भूरिशः । सन्ति तैविधुरोऽस्मीति भाग्यमेवास्ति जागृतम् ॥५१॥
अप्राप्तसौख्यचिन्ताभि-दु:खं जायेत यादृशम् । अप्राप्तदुःखचिन्ताभिस्सुखं जायेत तादृशम् ॥५२॥
दुःखे दुःखाधिकं पश्येद्-इत्येतद् युक्तिमद् वचः । अनावृत्तपदे दग्धो पंगुं दृष्ट्वाऽभवत् सुखी ॥५३॥
मरौ गतो रजोराशे-रन्यत् किं लप्स्यते ननु । भवे जातोऽपि दुःखानि विहायान्यत् किमाप्नुयात् ? ॥५४॥
१२०
श्रीसंवेगरतिः