________________
पञ्चमः प्रस्तावः
मतिज्ञान-श्रुतज्ञान-मोहनीय-प्रवर्तितम् । सुखं दुःखं च तन्नाशात्-तयोरपगमो भवेत् ॥१॥
अपूर्णे हि मतिज्ञान-श्रुतज्ञाने स्वभावतः । तयोरेवोत्थितो बोधोऽपूर्णः सौख्यादिको न किम् ॥२॥
केवलज्ञानलाभेन विघटेते मतिश्रुते । मोहनीयापहारेण सौख्यदुःखवियोजना ॥३॥
यावन्मत्यादिकं तावद् न ज्ञानं पूर्णमाप्यते । यावन्मोहोदयस्तावत् सुखं पूर्णं न लभ्यते ॥४॥
ननु सौख्यं च दुःखं च ज्ञानस्यानुभवद्वयम् । मोहनीयापहारे तु सौख्यमेवोपजायते ॥५॥
दुःखरूपस्य बोधस्य यत्राभावोऽस्ति चेतने । तत्र ज्ञानस्य पूर्णत्वं कथं नाम निगद्यते ॥६॥ युग्मम्
१०४
श्रीसंवेगरतिः