________________
[५१-५१]
आभाणकजगन्नाथः
१८. दुर्गतो मृगेन्द्रो गर्दभस्य पादसंवाहकः ।
१९. देव एव दीव्यति चेद् भक्तस्य भिक्षापात्रं शरणम् ।
२०. देवाय भागे दत्ते देवलस्य करे कपर्दिका ।
२१. धैर्ये गलिते दण्डैः प्रहारः ।
२२. पतितं चाटकैरं प्रासैः प्रहरन्ति ।
२३. पिपीलिकारोदनं पर्वतः शृणोति किम् ?
२४. पुष्पन्धयस्य प्रच्छादने प्राप्ते चटकस्य चीवरं चोरितम् ।
२५. बुभुक्षाधिक्ये भिक्षापात्रं भग्नम् ।
२६. भग्नास्थिकस्य शिरसि लगुडेन प्रहारः ।
२७. भस्मनि शयालोर्भर्मणि स्वप्नः ।
२८. भूरिदुःखस्योपरि नारिकेलपातः । २९. मृदुलेषु मानवास्त्रम् ।
३०. लताप्रहारेण भग्नकटौ लगुडप्रहारः । ३१. विशेष: को मुमूर्षोर्विषवापीपाशानाम् ? ३२. वृष्टौ वाञ्छायां वर्षोपलाः पतिताः ।
३३. व्रतं भ्रष्टं सुखं नष्टम् ।
३४. सप्तसु संकष्टेषु सप्ततिः संसर्पाः ।
५१. १९. दीव्यति द्यूतं क्रीडति । ५१.२०. देवलस्य अर्चकस्य । ५१.२२. चाटकैरंचटकस्य पोतम् । प्रासैः- आयुधविशेषैः । ५१.२४. पुष्पन्धयः- PurpleSunbird प्रच्छादने अनर्घे वस्त्रे । चीवरम्-मुनियोग्यं वस्त्रम् । ५१.२७. भर्मणि सुवर्णविषये । विषयसप्तमी । वर्षोपलाः- हिमाश्मानः । ५१.३१. मुमूर्षोः मर्तुमिच्छोर्जनस्य । ५१.३४. संसर्पाः- (तैत्तिरीयब्राह्मणे) अधिकमासाः । सौरमानचान्द्रमानयोर्वर्षगणने उच्चावचत्वं
४६
१.
२.
३५. सार्वभौमस्य विवाहे सारमेयं कः पृच्छति ?
३६.
सौभाग्यतल्पे सुषुप्सुः दौर्भाग्यकर्दमे लुठति।
३७. स्खलित्वा रुदतां चक्षुषि सज्जयन्ति मरिचचूर्णम् ।
३८. स्वर्धुन्यां सलिलं नास्ति ।
३९. स्वादु भक्ष्यं श्वाऽपहरति ।
[६६९]
३.
४.
आभाणकजगन्नाथः
१.
२.
३.
४.
५२. अभिमानलेशेनापि हीनाः ।
दयया दारय मेऽधुना शिरः । पीडयाथ पाडयालमीडनं करोमि ते । मालिन्ये क्षिप्ते मणीचकैः सपर्या ।
वदने निष्ठ्यते, पदयोर्मणिमञ्जीरम् ।
५३. दृष्टिभेदः
[५१-५३]
अतिथीनां शिशवः आतिथेयानां पशवः । केषाञ्चिच्चकः केषाञ्चिल्लटकः ।
भुवने लब्धकीर्तिः, स्वगृहे मूर्खमूर्तिः |
वर्षा ग्रामे हर्षाय, नगरे क्लेशप्रकर्षाय । [६७७] संभवति । तत्सामञ्जस्यसंपादनाय त्रयोदशतमो मासः कल्प्यते यस्याधिकमाससंज्ञा । यद्यप्यधिकमास एक एव । परन्तु यद्यधिकमासाधिक्यं भवति, तदा क्लेशबाधायाः संतपनावधिरधिकतर इति कल्पनयाऽत्र सप्ततिरित्युक्तम् । ५१.३८. स्वर्धुन्यां - देवगङ्गायां मन्दाकिन्याम् । ५२. २.पीडय, अथ, पाडय पादाभ्यां प्रहर । पाड लत्ताप्रहार इति मया सृष्टो धातुः । ईडनम्स्तुतिः । ५२.३. मणीचकैः- पुष्पैः । ५२.४.मञ्जीरम्-नूपुरम् । ५३.२ लटकः- दुष्टः ।
४७
[६७३]