________________
6
n
प्रतिष्ठा पूजाञ्जलि
मंगलाष्टक
( शार्दूलविक्रीडित )
-
अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धीश्वराः आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्तसुपाठकाः मुनिवरा: रत्नत्रयाराधकाः पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु ते मंगलम् ।। १ ।। श्रीमन्नम्र - सुरासुरेन्द्र – मुकुट प्रद्योत - रत्नप्रभाभास्वत्पाद - नखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः । ये सर्वे जिनसिद्ध-सूर्यनुगतास्ते पाठकाः साधवः, स्तुत्या योगिजनैश्च पञ्चगुरवः कुर्वन्तु ते मंगलम् ।।२ ।। सम्यग्दर्शन - बोध - वृत्तममलं रत्नत्रयं पावनं, मुक्तिश्री नगराधिनाथ - जिनपत्युक्तोऽपवर्गप्रदः । धर्मः सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रूयालयं, प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ।। ३ ।। नाभेयादि-जिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशतिः, श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश । ये विष्णु-प्रतिविष्णु-लाङ्गलधराः सप्तोत्तरा विंशतिः, त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषाः कुर्वन्तु ते मंगलम् ॥४ ॥ ये सर्वौषधऋद्धयः सुतपसो वृद्धिंगता पञ्च ये, ये चाष्टांगमहानिमित्तकुशला येऽष्टाविधाश्चारणाः । पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धि - ऋद्धीश्वराः, सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते मंगलम् ।।५ ।। कैलाशे वृषभस्य निर्वृतिमही वीरस्य पावापुरे, चम्पायां वसुपूज्य सज्जिनपतेः सम्मेदशैलेऽर्हताम् । शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो, निर्वाणावनयः प्रसिद्धविभवाः कुर्वन्तु ते मंगलम् ।।६।।
-