________________
236
प्रतिष्ठा पूजाञ्जलि
।। इच्छामि भंते समाहिभत्तिकाउस्सग्गो कओ तस्सालोचेर्ड। रयणत्तयपरूव परमप्पझाणलक्खणं समाहिभत्तीये णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमस्सामि दुक्खक्खओ, कम्मक्खओ बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।
लघु चैत्य भक्ति
(उपजाति) वर्षेषु-वर्षान्तर-पर्वतेषु नन्दीश्वरे यानि च मंदरेषु। यावंति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानाम्।।1।।
(मालिनी) अवनि-तल-गतानां कृत्रिमाकृत्रिमाणां, वन-भवन-गतानां दिव्य-वैमानिकानां। इह मनुज-कृतानां देवराजार्चितानां, जिनवर-निलयानां भावतोऽहं स्मरामि।।2।।
(शार्दूलविक्रीडित) जंबू-धातकि-पुष्करार्ध-वसुधा-क्षेत्र त्रये ये भवाश्चन्द्रांभोज-शिखंडि-कण्ठ-कनक-प्रावृधनाभा जिनाः। सम्यग्ज्ञान-चरित्र-लक्षणधरा दग्धाष्ट-कर्मेन्धनाः, भूतानागत-वर्तमान-समये तेभ्यो जिनेभ्यो नमः ।।3।।
(स्रग्धरा) श्रीमन्मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जंबुवृक्षे, वक्षारे चैत्यवृक्षे रतिकर-रुचिके कुंडले मानुषांके। इष्वाकारे जनाद्रौ दधि-मुख-शिखरे व्यन्तरे स्वर्गलोके, ज्योतिर्लोकेऽभिवंदे भवन-महितले यानि चैत्यालयानि।।4।।