________________
234
प्रतिष्ठा पूजाञ्जलि
(अनुष्टुप्) अर्ह मित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः। सिद्धचक्रस्य सद्वीजं सर्वतः प्रणमाम्यहं ।।11।। कर्माष्टकविनिमुक्तं मोक्षलक्ष्मीनिकेतनम्। सम्यक्त्वादि गुणोपेतं सिद्धचक्रं नमाम्यहम्।।12।।
(शार्दूलविक्रीडित) आकृष्टिं सुरसम्पदां विदधते मुक्तिश्रियो वश्यतां। उच्चाट विपदां चतुर्गतिभुवा विद्वेषमात्मैनसाम्।। स्तम्भं दुर्गमनं प्रति प्रयततो मोहस्य सम्मोहनम्। पायात्पंचनमस्क्रियाक्षरमयी साराधना देवता।।13।।
(अनुष्टुप्) अनन्तानन्तसंसार-सन्ततिच्छेदकारणम्। जिनराजपदाम्भोजस्मरणं शरणं मम ।।14।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्कारुण्यभावेन रक्ष रक्ष जिनेश्वरः।।15।। नहि त्राता नहि त्राता नहि त्राता जगत्त्रये। वीतरागात्परो देवो न भूतो न भविष्यति।।16।। जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने। सदामेऽस्तु सदामेऽस्तु सदामेऽस्तु भवे भवे।।17।। याचेहं याचेहं जिन तव चरणारविंदयोर्भक्तिम्। याचेहं याचेहं पुनरपि तामेव तामेव।।18 ।। विघ्नौघाः प्रलयं यान्ति शाकिनी-भूत-पन्नगा। विषं निर्विषतां याति स्तयमाने जिनेश्वरे।।1।।
(कार्योत्सर्ग करें)