________________
प्रतिष्ठा पूजाञ्जलि
कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि।। चतुर्विधं बुद्धिबलं दधानाः स्वस्ति क्रियासुः परमर्षयो नः।।२।। संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि । दिव्यान्मतिज्ञान-बलाद्वहन्तः स्वस्ति क्रियासुः परमर्षयो नः ।।३।। प्रज्ञाप्रधानाः श्रमणाः समृद्धाः प्रत्येकबुद्धा दशसर्वपूर्वैः । प्रवादिनोऽष्टाङ्गनिमित्तविज्ञाः स्वस्ति क्रियासुः परमर्षयो नः ।।४।। जङ्घावलि-श्रेणि-फलाम्बु-तन्तप्रसनबीजांकरचारणाह्वाः।। नभोऽङ्गणस्वैर-विहारिणश्च स्वस्ति क्रियासुः परमर्षयो नः ।।५।। अणिम्निदक्षाः कुशलामहिम्नि लघिम्निशक्ताः कृतिनो गरिम्णि । मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति क्रियासुः परमर्षयो नः ।।६।। सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः। तथाऽप्रतीघातगुणप्रधानाः स्वस्ति क्रियासुः परमर्षयो नः ।।७।। दीप्तं च तप्तं च तथा महोग्रं घोरं तपो घोरपराक्रमस्थाः । ब्रह्मापरं घोर गुणाश्चरन्तः स्वस्ति क्रियासुः परमर्षयो नः ।।८।। आमर्ष-सर्वोषधयस्तथाशीर्विषं-विषा दृष्टिविषं विषाश्च । सखिल्ल-विङ्जल्लमलौषधीशा: स्वस्ति क्रियासुः परमर्षयो नः।।९।। क्षीरं सवन्तोऽत्र घृतं सवन्तो मधुम्रवन्तोऽप्यमृतं स्रवन्तः।। अक्षीणसंवास-महानसाश्च स्वस्ति क्रियासुः परमर्षयो नः ।।१०।।
(इति परमर्षिस्वस्तिमङ्गलविधानं पुष्पांजलिं क्षिपेत्)