________________
मेवाडदेशपावनकतृणां श्री श्रमणसंघीय पण्डित मुनिश्री मांगीलालजी महाराजाना शिष्यस्य हस्तिमुने
सम्मतिपत्रम् . २०१५ वर्षीय-वर्षावास-दीपावली
राजकरेडा ( राजस्थान) पुरतो जिनवाणीरसिक सज्जनाना पूज्यश्री १००८ श्री घासीलालजी महा राजविरचित जैनागमव्याख्याऽध्ययनजन्मनो मत्स्वान्ते परिमितिमप्राप्नुवतो निर्मरानन्दस्यानुभवं प्रसम्ममनसा कतिपय शब्दैनिर्दिशामि । ___ अस्माकमहोभाग्येन विराजमानविधया वयसा च वृद्वैः सज्जनशिरोमणिभिः पूज्यपदवीमलब्र्वद्भिः श्रीमज्जैनाचार्य घासीलालजीमहाराजैः मणीतया व्याख्यया समलङ्कताः नैनागमा दृष्टिगोचरीकताः । मनोहारिणी संस्कृत टीका हिन्दीगुर्जरभापानुवादद्वय च वलान्मानस समाकर्षति। पूज्यश्रीविरचितजैनागमव्याख्यानसहस्रभानुना मम जैनागमरहस्यानानतमस्सहतिरपहता, हत्पन च प्रफुल्लित जातम् ।
आसीदभावो बहोः कालाज्जैनागमेपु स्थानकवासिसमदायाभिमतसस्कृतव्याख्यानस्य, परतन्त्रवासीदद्यावधिस्थानकवासीजैनसमुदायः। परं परमकृपालना श्रीमवाऽऽचार्यमवरेणाऽनवरत परिश्रम्य जैनागमेषु स्वसंपदायपरिपोषिका टीका विधाय सकलोऽपि स्थानकवासिजैनसर. स्वावलम्पोकतः । श्रीमज्जैनाचार्यकृतेय मुपकृतिः सकलस्थानकवासिर्जनहृदयेपु वज्रलेपायिता भविष्यतीति मन्ये । ___अनादिघोराज्ञानतमसिपतता जनानां त्राणोपायः केवल जिनभापितमेवेवि सर्वविदितमेव । तत्र सर्वजनकल्याणकामनया पूज्यश्रीचरणर्या टीका विरचिता सा सर्वेषामपि सिद्धिपदा विजयप्रदा कल्याणपदा सन्मार्गप्रदर्शिका चास्तीति मे सुदृढो विश्वासः । अतोऽह सनिपि जैनबन्धून मोत्साहयामि, यत्ते स्वहितमभिसधाय श्रीमत्पूज्यजैनाचार्यविरचितन्याख्यासाहाग्येन जैनागमहदय सम्यगवगम्य तनिदिष्टमार्गेण स्व-स्वजोवन सफलयन्तो लोकद्वय साधयन्त्वित्यलमतिविस्तरेण । ___अन्ते, च शासनाधीशमभ्यर्थये-यदस्मदीयाचार्यमवराः शतायुपो निरामयश्च भवन्विति ।
इत्य पूज्यश्री १००८ श्रीघासीलालजी महाराजविरचितजैनागमव्याख्यायां स्वसम्मति प्रदर्शयति
श्री श्रमणसघीय पण्डित मुनिश्री मांगीलालजी महाराजचरणरजो इस्तीमुनिः