________________
सुन्दरबोधिनी टीका वर्ग ३ अ. ४ वहुपुत्रिकादेवीवर्णनम् अस्माकं कल्पते जातकर्म कर्तुम् , त्वं च खलु देवानुप्रिये ! बहुजनस्य चेटरूपेषु मूच्छिता यावत् अध्युपपन्ना अभ्यजनं च यावत् नपत्रीपिपासां वा प्रत्यनुभवन्ती विहरसि, तत् खलु देवानुप्रिये ! एतस्य स्थानस्य अलोचय यावत् प्रायश्चित्तं प्रतिपद्यस्व । ततः खलु सा सुभद्रा आयो मत्रतानामार्या. णामेतमथ नो आद्रियते नो परिजानाति, अनाद्रियमाणा अपरिजानन्ती विहरति ।
ततः खलु ताः श्रमण्यो निर्ग्रन्थ्यः सुभद्रामाया हीलन्ति निन्दन्ति सिन्ति गर्हन्ते अभीक्ष्णम् २ एतमर्थ निवारयन्ति । ततः खलु तस्याः सुभद्राया आर्यायाः श्रमणीभिर्निग्रन्थीभिर्हील्यमानाया यावत् अभीक्ष्णम् २ एतमर्थ निवारयन्त्या अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत-यदा खल अहम् अगारवासं सामि तदा खलु अहम् आत्मवशा, यतः प्रभृति च खलु अहं मुण्डा भूत्वा अगारात् अनगारतां प्रव्रजिता ततः प्रभृति च खलु अहं परवशा, पूर्व च श्रमण्यो निग्रंन्थ्य आद्रियन्ते, परिजानन्ति, इदानीं नो आद्रियन्ते नो परिजानन्ति, तत् श्रेयः खलु मे कल्ये यावत् ज्वलति सुव्रतानामार्याणामन्तिकात् प्रतिनिष्क्रम्य प्रत्येकम् उपाश्रयम् उपसंपद्य खलु विहत्तम् । एवं संप्रेक्षते, संप्रेक्ष्य कल्ये यावत् ज्वलति सुव्रतानामार्याणामन्तिकात् प्रतिनिष्काम्यति, प्रतिनिष्क्रम्य प्रत्येकमुपाश्रयमुपसंपद्य खलु विहरति । ततः खलु सा सुभद्रा आर्या आर्याभिः अनपघट्टिका अनिवारिता स्वच्छन्दमतिः बहुजनस्य चेटरूपेषु मूच्छिता यावत् अभ्यञ्जनं च यावत् नप्त्री पिपासा च प्रत्यनुभवन्ती विहरति ।
___ ततः खलु सा सुभद्रा आर्या पावस्था पार्श्वस्थ विहारिणी एवमवसन्ना अवसनविहारिणी कुशीला कुशीलविहारिणी संसक्ता संसक्तविहारिणी यथाच्छन्दा यथाच्छन्दविहारिणी बहूनि वाणि श्रामण्यपर्यायं पालयति, पालयित्वा अर्द्धमासिक्या संलेखनया आत्मनं जोपयित्वा त्रिंशद् भक्तानि अनगनेन छित्त्वा तस्य स्थानस्य अनालोचिताऽप्रतिक्रान्ता कालमासे कालं कृत्वा सौधर्मे कल्पे बहुपुत्रिकाविमाने उपपातसभायां देवशयनीये देवदूप्यान्तरिता अङ्गलस्य असंख्येयभागमात्रया अवगाहनया बहुपुत्रिकादेवीतया उपपन्ना ।
___ततः खलु सा बहुपुत्रिका देवी अधुनोपपन्नमात्रा सती पञ्चविधया पर्याप्त्या यावद् भाषामनःपर्याप्त्या० । एवं खलु गौतम ! बहुपुत्रिकया देव्या दिव्या देवद्धिः यावत् अमिसमन्वागता । अथ सा केनार्थन भदन्त ! एवमुच्यते बहुपुत्रिका देवी २: गौतम ! बहुपुत्रिका खलु देवी यदा यदा शक्रस्य देवेन्द्रस्य देवराजस्य उपस्थानं (प्रत्यासत्तिगमनं ) करोति । तदा