SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका २०११ उ०९ सू०३ शिवराजषिचरितनिरूपणम् ३४९ छाया-ततः खलु तस्य शिवस्य राजर्षे षष्ठषष्ठेन अनिक्षिप्तेन दिशाचक्रवालेन यावत् आतापयतः प्रकृतिभद्रतया यावत् विनीततया अन्यदा कदाचित तदावरणीयानां कर्मणां क्षयोपशमेन ईहापोह-मार्गणगवेषणं कुर्वतो विभङ्गो नाम अज्ञानं समुत्पन्नम्। स खल्ल तेन विभङ्गज्ञानेन समुत्पन्नेन पश्यति-अस्मिन् लोके सप्तद्वीपाः सप्तसमुद्राः, तेन परं न जानाति, न पश्यति । ततः खलु तस्य शिवस्य राजर्षेः अयमेतद्रूपः आध्यात्मिको यावत् समुदपधत-अस्ति खलु मम अतिशयं ज्ञानदर्शनं समुत्पन्नम् , एवं खलु अस्मिन् लोके सप्तद्वीपाः सप्तसमुद्राः, तेन परं व्युच्छिन्ना द्वीपाश्च, समुद्राश्थ, एवं संपेक्षते, संप्रेक्ष्य आतापनभूमितः प्रत्यवरोहति, प्रत्यवरुह्य वाल्कलवस्त्रनिवसितो यत्रैच स्वकः, उटजस्तत्रैव उपागच्छति, उपागत्य सुबहु लोहीलोहकटाहकडुच्छुकं यावत् भाण्डकं किदिनसांकायिकंच गृह्णाति, गृहीत्वा यत्रैव हस्तिनापुर नगरं, यत्रैव तापसावसंथः तत्रैवोपागच्छति, उपागत्य भाण्डनिक्षेपं करोति, कृत्वा हस्तिनापुरे नगरे शृङ्गाटकत्रिकयावत्पथेषु बहुजनस्य एवमाख्याति, यावत् एवं प्ररूपयति-अस्ति खलु देवानुप्रियाः ! मम अतिशय ज्ञानदर्शनं समुत्पन्नम्-एवं खलु अस्मिन् लोके यावद् द्वीपाश्च, समुद्राच । ततः खलु तस्य शिवस्य राजर्षेः अन्तिके एतमर्थ श्रुत्वा निशम्य हस्तिनापुरे नगरे शङ्गाटक त्रिक यावत्पथेषु बहुजनोऽन्योन्यस्य एवमाख्याति यावत् प्ररूपयति-एवं खलु देवानुप्रियाः। शिवो राजर्षिः एवमाख्याति यादत्मरूपयति-अस्ति खलु देवानुप्रियाः। मम अतिशयं ज्ञानदर्शनं यावत् तेन परं व्युच्छिन्नाः द्वीपाश्च, समुद्राश्च, तत् कथमेतदू मन्ये एवम् ? । तस्मिन् काले, तस्मिन् समये स्वामी समवस्तः, पर्षद् यावत्पतिगता, तस्मिन् काले, तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी यथा द्वितीयशतके निर्ग्रन्थोद्देशके यावत् अटन् बहुजनशब्दं निशाम्यति, बहुजनोऽन्योन्यस्य एवम् आख्याति, एवं यावत् प्ररूपयति-एवं खल्ल देवानुप्रियाः! शिवो राजर्पिः एवम् आख्याति यावत्मरूपयति-अस्ति खलु देवानुप्रियाः। तदेव यावत् व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, तत्कथमेतत् मन्ये एवम् । ततः खलु भगवान् गौतमो बहुजनस्य अन्ति के एतमथै श्रुत्वा निशम्य यावत्-श्रदो यथा निग्रन्थोद्देशके यावत् तेन परं व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, तत्कथमेतत् भदन्त ! एवम् ? गौतम इति! श्रमणो भगवान महावीरो भगवन्तं गौतमम् एवम् अवादीत-यत खलु गौतम ! स बहुजनः अन्योन्यस्य एवमाख्याति तदेव सर्व भणितव्यम् यावत् भाण्ड निक्षेपं करोति, कृत्वा, हस्तिनापुरे नगरे शनाटकत्रिक यावत्-व्युच्छिन्ना द्वीपाश्च, समुद्राश्च, । ततः खलु तस्य शिवस्य राजर्षेः अन्ति के एतमर्थ श्रुत्वा, निशम्य तदेव सर्वे भणितव्यम् यावत्-तेन परं व्युच्छिन्ना दीपाश्च,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy