________________
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
वित्तः, विस्तीर्णविपुलभवनशयनासनयानकाहना कीर्णः, बहुवनवहुजातरूपरजतः, आयोगप्रयोगसम्प्रयुक्तः, विच्छर्दितमचुर भक्तपानः, बहुदासीदास गोमहिषग वेलकप्रभूतः प्रतिपूर्ण कोशकोष्ठागारायुधागारः, चलवान्, दुर्बलमत्यमित्रः, अवहतकण्टकं, निहतकण्टकं, मर्दितकण्टकम् उद्धृतकण्टकम् अकण्टकम् अहतशत्रु, निहतशत्रु, मर्दितशत्रु, उद्घृतशत्रु, निर्जितशत्रु पराजितशत्रु व्यपगतदुर्भिक्षं मारीमयविषमुक्त राजवर्णकः यथा औषपाति यावत् प्रशान्त डिम्बडम्बरं राज्यं प्रसाधयन् विहरति । तस्य खलु राज्ञः परिषद्भवति, उग्राः, उग्रपुत्राः, भोगाः भोगपुत्राः, इक्ष्वाकवः, इक्ष्वाकुपुत्राः, ज्ञाताः ज्ञातपुत्राः कौरव्याः, कौरव्यपुत्राः, भट्टाः, भट्टपुत्राः, ब्राह्मणाः, ब्राह्मणपुत्राः, लेच्छिकिणः, लेच्छिकपुत्राः, प्रशास्तारः शास्त्रपुत्राः, सेनापतयः, सेनापतिपुत्राः । तेषां च एकतमः श्रद्धावान् भवति, कामं तं श्रमणो वा ब्राह्मणो वा सम्प्रधार्षु', गमनाय, तत्र अन्यतरेण धर्मेण प्रज्ञापयितारः वयम् अनेन धर्मेण प्रज्ञापयिष्यामः, तत् एवं जानीहि भयत्रातः, यथा मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति तद्यथा-ऊर्ध्वं पादतलाद् अधः केशाग्रमस्तकात् हि स्वक्पर्यन्तो जीवः एष आत्मपर्यत्रः कृत्स्नः । अस्मिन् जीवति जीवति, एष मृतः, नो जीवति, शरीरे धरति धरति विनष्टे च नो धरति । एतदन्तं जीवितं भवति । आदहनाय परैर्नीयते, अग्निध्मापिते शरीरे कपोतवर्णान्यस्थीनि भवन्ति । आसदीपञ्चमाः पुरुषाः ग्रामं प्रत्यागच्छन्ति । एवम् असन असंवेद्यमानः येषां सोऽसन् असंवेद्यमानः तेषां तत् स्वाख्यातं भवति । अन्यो भवति जीवः, अन्यच्छरीरम्, तस्मात् ते एवं नो विप्रतिवेदयन्ति अयमायुष्मन् ! आत्मा दीर्घ इति वा, ह्रस्व इति वा, परिमण्डल इति वा, वर्तुल इति वा, त्र्यत्र इतिवा, चतुरस्र इति चा, आयत इति वा, पडंश इति वा, अष्टांश इति वा, कृष्ण इति वा, नील इति वा, लोहित इति वा, हारिद्र इति वा, शुक्ल इति वा, सुरभिगन्ध इति वा, दुरभिगन्ध इति वा, विक्त इति वा, कटुक इति वा, कषाय इति वा अम्ल इति वा, मधुर इति वा, कर्कश इति वा, मृदुरिति वा, गुरुक इति वा, लघुक इति वा, शीत इति वा, उष्ण इति वा, स्निग्ध इति वा, रूक्ष इति वा, एवम् असन् असंवेद्यमानः येषां तत् स्वाख्यातं भवति, अन्यो जीवः अन्यच्छरीर तस्मात् ते नो एवम् उपलभन्ते, तद्यथा नामकः कश्चित् पुरुषः कोशाद् असिम् अमिनिर्वर्त्य उपदर्शयेद्, अयम् आयुष्मन् ! असिः अयं कोशः एवमेव नास्ति कोsपि पुरुषः अभिनिर्वर्त्य खलु उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम्, तद्यथा नामकः कोऽपि पुरुप मुञ्जाद् इपिकाम् अभिनिर्वत्थं खलु उपदर्शयेद् अयमायुष्मन् ! मुञ्जः इयभिषिका, एवमेव नास्ति कोऽपि पुरुषः उपदर्शिता , अयमायुष्मन् ! आत्मा इदं शरीरम्, तद्यथा नामकः कोऽपि पुरुषो मांसाद अस्थि