________________
७२६
सूत्रहतारो भूया अगारादनगारित्वं पवनन्धि एपां च आमरणान्तो दण्डो निक्षिप्तः, ये इमे अगारमावसन्ति एतेषां खलु आमरणान्तो दण्डो नो निक्षिप्तः केचिच्च खलु श्रमणा: यावद् वर्षाणि चतुःपञ्चपइदशानि वा अल्पतरं वा भूयस्तरं वा विहृत्य देशम गारमावसेयुः ? । इन्त वसेयुः । तस्य तं गृहस्थं नवः तत्पत्याख्यानं मग्नं भवति ? नायमर्थः समर्थः, एवमेव श्रमणोपासकस्याऽपि त्रसेपु प्राणेषु दण्डो निक्षिप्तः स्थावरेपु दण्डो न निक्षिप्तः तस्य खलु तं स्थावरकायं घनतः तत् प्रत्या. ख्यानं नो भग्न भवति तदेवं जानीत निर्ग्रन्थाः , एवं ज्ञातव्यम् । भगवांश्च उदाह -निग्रंन्याः खलु प्रष्टच्या आयुष्मन्तो निर्ग्रन्थाः, इह खलु गायापतिर्वा गाथापति पुत्रो-वा तथाप्रकारेषु कुलेषु आगत्य धर्मश्राणार्थ मुपसंक्रमेयुः ? हन्त! उपसंक्रमेयुः, तेषां च खलु यथापकाराणां धर्म आरूपातयः ? हन्त आख्यातव्यः। किं ते तथामकार धर्म श्रुत्वा निशम्य एवं वदेयु:-इदमेव नैन्यं प्रवचनं सत्य मनुत्तरं कैवलिकं परिपूर्ण संशुद्ध नैयायिक शल्यकर्तनं सिद्धिमार्ग मुक्तिमार्गः निर्याणमार्ग निर्वाणमार्गः अविवथमसंदिग्धं सर्वदुःखमहीणमार्गम्: अत्र स्थित्वा जीवाः सिध्यन्ति युध्यन्ते मुश्चन्ति परिनिर्शन्ति सर्वदुःखानामन्त कुर्वन्ति, तदाज्ञया तथा गच्छाम स्तथा तिष्ठामस्तथा निपीदाम स्तथा त्वचं वर्तयाम स्तथा भुनामहे तथा भाषामहे तथा अभ्युत्तिष्ठामस्तथा उत्थाय उत्तिष्ठाम इति प्राणानां भूतानां जीवानां सत्त्वानां संयमेन संपच्छाम इति वदेयुः? हन्त वदेयुः। किं ते तथापकाराः कल्प्यन्ते पवाजयितुम् ? हन्त कल्प्यन्ते। किं ते तथापकराः कल्प्यन्ते मुण्डयितुं हन्त कल्प्यन्ते । कि ते तथाप्रकाराः कल्प्यन्ते शिक्षयितुं ? हन्त कल्प्यन्ते । किं ते तथाप्रकाराः कल्पपन्ते उपस्थापयितुम् ? हन्त कल्प्यन्ते । तैव खलु, तथामकारैः सर्वमाणिषु यावत् सर्वसत्वेषु दण्डो निक्षित ? हन्त निक्षिप्तः। ते खलु एतद्रूपेण विहारेण विहरन्तो यावद् वर्षागि चतुः पञ्चानि षड्दशानि वा अल्पतरं वा भूगस्तरं वा देशं विहृत्य अगारं व्रजेयुः ? हन्त व्रजेयुः । तैश्च खलु सर्वप्राणेषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्त ! नायमर्थः समर्थः तस्य यः स जीवः येन परतः सर्वप्राणेषु यावत्सर्वसत्त्वेपु दन्डो नो निक्षिप्तः तस्य यः स जीवः येन आरात् सर्वप्राणेषु यावत् सर्वसत्वेषु दण्डो निक्षिप्तः, तस्य स जीवः येन इदानीं सर्वमाणेषु यावत् सर्वसत्त्वेषु दण्डो न निक्षिप्तो भवति परतोऽसंयतः आरात् संयतः इदानीमसंयतः, असंयतस्य खलु सर्वप्राणेषु यावत् सर्वसत्त्वेपु दण्डो नो निक्षिप्तो भवति तदेवं जानीत निम्रन्थाः। तदेवं ज्ञातव्यम् । भगवांश्च उदाह-निग्रंन्धाः खल प्रष्टव्या आयुष्मन्तो निर्गन्थाः। इह खलु परिव्राजका वा परित्राजिका वा अन्यतरेभ्य स्तीर्थायतनेभ्य आगत्य