________________
भवभावना-५१७
[छेदं शोषं मर्दनं बन्धं निष्पीलनं च लोके । जीवाः तिलाश्च प्रेक्षध्वं प्राप्नुवन्ति स्नेहसम्बद्धाः ॥ ५१३॥]
[मू दुरुज्झियमज्जाया, धम्मविरुद्धं च जणविरुद्धं च । किमकज्जं जं जीवा, न कुणंति सिणेहपडिबद्धा ?॥५१४॥ [दूरोज्झितमर्यादा धर्मविरुद्धं च जनविरुद्धं च।
किमकार्यं यद् जीवा न कुर्वन्ति स्नेहप्रतिबद्धाः ॥ ५१४॥]
[मू] थेवो वि जाव नेहो, जीवाणं ताव निव्वुई कत्तो ? | नेहक्खयम्मि पावइ, पेच्छ पईवो वि निव्वाणं॥५१५॥
[स्तोकोऽपि यावत् स्नेहो जीवानां तावद् निर्वृत्तिः कुतः ? | स्नेहक्षये प्राप्नोति प्रेक्षस्व प्रदीपोऽपि निर्वाणम्॥ ५१५॥]
[मू] इय धीराण ममत्तं, नेहो य नियत्तए सुयाईसु। रोगाइआवईसु य, इय भावंताण न विमोहो ॥५१६॥
१४९
[इति धीराणां ममत्वं स्नेहश्च निवर्तते सुतादिषु । रोगाद्यापत्सु च इति भावयतां न विमोहः॥५१६॥]
[अव] धिया = निर्मलबुद्ध्या राजन्त इति धीराः ज्ञानिनस्तेषां इत्युक्तप्रकारेण भावयतां ममत्वं स्नेहश्च सुखादिषु निवर्तते। तथा रोगाद्यापत्सु इत्येवं ज्ञानिनां विभावयतां नैव मोह इत्यर्थः॥५१६॥
रोगपीडाद्यापज्जनिते मानसे दुःखे समुत्पन्ने कोऽपि ज्ञानी एवं विभावयन्नात्मानमनुशासयन्नाह
[मू] नरतिरिएसु गयाइं, पलिओवमसागराइंऽणंताई।
किं पुण सुहावसाणं, तुच्छमिणं माणसं दुक्खं ? ॥ ५१७॥
[नरतिर्यक्षु गतानि पल्योपमसागराण्यनन्तानि।
किं पुनः सुखावसानं तुच्छमिदं मानसं दुःखम् ?||५१७||]
[अव] हे जीव! भवतः पूर्वे संसारसागरे परिभ्रमतो नारकतिर्यङ्नरामरे दु:रि खितस्यानन्तसागरोपमानि गतानि किं पुनर्जिनधर्माचरणप्रभावानुमितसुखावसानम्, तुच्छं चाल्पकालभाव्यैतन्मानसं दुःखं नैवापयास्यत्यपि तु यास्यत्येव। मा वैक्लव्यं भजस्वेति भावयन् ज्ञानी तेन दुःखेन न बाध्यत इत्यर्थः ॥ ५१७॥
१. माणुसं इति पा. प्रतौ।