________________
(दोधक) दन्तखादिमलं मनुजानां रोगगणं हरते यदीयम्। वृश्चिकनागविषं नरमारी पूजय तान् शमकान् वरमन्त्रैः।।13।। ऊँ ह्रीं अहँ णमो सव्वोसहिपत्ताणं अयं निर्वपामीति स्वाहा।
(उपजातिः) येऽन्र्मुहूर्तेन विदन्ति शास्त्रं, हृदाश्रमातीतहृदः समस्तम्। तुरंगमारी प्रलयं प्रगच्छेद् भेजे चतान् मानससत्वसारान्।।14।।
ऊँ ह्रीं अर्ह णमो मणबलीणं अध्यं निर्वपामीति स्वाहा।
यद्वाचो निखिलं श्रुतवार्द्धिमश्रान्तं गदितुं सुसमर्थो। मेषमतापहनो मुनिमुख्यान् गीर्बलिनो भज योगसुभेत्तृन्।।15। ऊँ ह्रीं अहँ णमो वचिबलीणं अध्यं निर्वपामीति स्वाहा।
(शार्दूल विक्रीडितम्) लोकं चालयितुं क्षमाः शमयास्तीव्रवतभ्राजिनो। येऽगुल्या सुरभूधराब्धिसहितं श्रान्तातिगा योगिनः।। गोमारी त्वरितं हरन्ति मनुजा यन्नामतस्तान् भजे। संप्राप्तान् गुरुगात्रसत्त्वममलं शार्दूलविक्रीडितम्।।16॥ ऊँ ह्रीं अहँ णमो कायबलीणं अध्यं निर्वपामीति स्वाहा।
(दोधक) येषां पाणिपुटे गतमन्नं विषमपि दुग्धतया प्रभवेच्च। कुष्ठक्षयदगण्डकमाला तापहरान् प्रयजे मुनिमुख्यान्।।17। ऊँ ह्रीं अहँ णमो खीरसवीणं अध्यं निर्वपामीति स्वाहा।
824