________________
(अनुष्टुप) यदंगसगिंतोयेन याति पापं नृणां क्षणात्। तदर्पये निजे मूर्ध्यघं तिष्ठति कथं मम।।17।
इति गन्धोदकवन्दनम् स्नपयित्वेति ये भक्त्या चायन्ते गणनायकम्। भुक्त्वा स्वभूपदं मुक्तौ सुखायन्ते सुखैषिणः।।18।।
इति पुष्पांजलिः इति श्री गणधरवलय यन्त्रस्नपनं समाप्तम्।
समुच्चय पूजा (उपजातिः) वसुघ्नषट् ऋद्धिसमृद्धिसिद्धं, यन्त्रं स्फुरन्मन्त्रसुतन्त्रमेव। संस्थापये श्रीगणधारचक्रं, ज्वरातिसारादिरुजापहारम्।।1।।
ऊँ ह्रीं गणधरसमूह अत्र एहि एहि संवौषट् आह्वाननम्। ॐ ह्रीं गणधरसमूह पंचनमस्कारमंत्र ! अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्। ऊँ ह्रीं गणधरसमूह पंचनमस्कारमंत्र ! अत्र मम सन्निहितो भव भव वषट् सन्निधापनम्।
अथ स्तवनम् (वसन्ततिलका) बुद्धयौषधीरससुविक्रियदेशवीर्यव्योमक्रियर्द्धितपसा सहितान् मुनीशान्। सत्केवलावधिमनः परिगान् सुबीजसत्कोष्ठबुद्धिपदसारितया प्रसिद्धान्।।1।।
श्रोतॄन् सुभिन्नसुगवां लघुदूरतोक्षा स्पर्शश्रवोरसनिका, वरनासिकानाम् वेतृनसुगोचर गणान् दश सर्वपूर्ववेतॄन् निमित्तकुशलान् स्तुमहे महर्षीन्।।2।। युग्मं।। प्रत्येकबुद्धवरवादिगणान् प्रधीकान् बुद्धयर्द्धियुक्तिकललितान् द्विनव स्तवीमि। विट खिल्लजल्लपरमामसु सर्वतश्च रोगापहान् वसुविधान् वरदृष्टिचक्रैः।।3।।
811