________________
संयोज्योपचरत्यजस्रमसमैर्भोगैः सभाग्भिः पुनः ॥3॥ किं कुर्वाणसुरेन्द्रवृन्दविषयानन्दाद् विरक्त स्तुतो, यो लोकान्तिक नाकिभिः शिविकया निष्क्रम्य गेहान्महैः। दिव्यैः सिद्धनतीद्धया वनतरुं पूत्वा परं दीक्षया, भुङ्क्ते शुद्धनिजात्मसंविदमृतं स त्वं सफुरस्येव नः॥4॥ सम्यग्दृष्टिकृशाकृशव्रतशुभो-त्साहेषु तिष्ठन् क्वचिद्,
धर्मध्यान बलादयत्नगलिता आयुस्त्रयः सप्तमे। दृष्टिघ्ना प्रकृतिः समातपचतुर्जातित्रिनिद्रा द्विधा, श्वभ्रस्थावर सूक्ष्मतिर्यगुभयो-द्योतं कषायाष्टकम्॥5॥ क्लेव्यं स्त्रैणमथादिमेन नवमे हास्थादिषट्कं वृतं, क्षिप्तोदीचपृथक्कृतादिदशमे लोभं कषायान्तकम्। निद्रां सप्रचलामुपान्त्यसमये दृग्विघ्नविघ्नं चतुवीर्यं च क्षिपेत परेण चरमे शुक्लेन सोऽर्हन्नसि॥6॥ द्रव्यं भावमथादि सूक्ष्ममधियन्, नुक्तावितर्कैः स्फुरन्नर्थव्यञ्जनमङ्गलैरपि पृथक्त्वेनापि संक्रामता। कर्मांशाशनवस्थितेन मनसा प्रौढार्भकोत्साहकोत्कण्ठेन द्रुमबाणसं परशुभिश्चिछन्दन्यतीष्वध्यसि।।7।। क्षुण्णे मोहरिपौ भजन्नुरू यथा ख्याताधिराज्यश्रियं, शुद्धस्वात्मनि निर्विचार विलसत्पूर्वोदितार्थश्रितः। स्वच्छन्दोच्छलदुज्ज्वलोज्ज्वलचिदा-नन्दैक भावोद्गलच्छेषारिव्रजवैभव स्फुटमसि त्वं नाथ निर्ग्रन्थराट् ॥8॥ विश्वैश्वर्यविघातिघातिसहजो-च्छेदोद्गतान्तदृक्,
संविद्वीर्यसुखात्मिकस्त्रिजगता-कीर्णे सदयास्थितः। जीवन्मुक्तिमृषीन्द्र चक्रमहित-स्तीर्थं चतुस्त्रिंशता,
400