________________
काम्पिल्यनाथ कृतवर्मगृहावतारं, श्यामा जयाह्व जननी सुखदं नमामि । कोलध्वजं विमलमीश्वरमध्वरेऽस्मिन्नर्थे द्विरुक्तमलहापनकर्मसिद्ध्यै।।13।। ॐ ह्रीं विमलनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा।
उर्ध्वाष्टहस्त विलसत्परशुं चतुर्भिः, खड्गामलाक्ष मणिखेटकदण्डमुद्राः । शेषैः करैश्च दधत विमलेशभक्तं, नाम्नोर्थतः षण्मुखमर्चयामि ॥13॥ ॐ आं क्रों ह्रीं षण्मुखयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा।
उर्ध्वेन हस्तद्वितयेन सर्पा- वधः स्थितेनोर्जितचापबाणौ। यजे वहन्तीं विमलेश यक्षीं वैरोटिकां त्रोटितविघ्नकोटिम्॥13॥ ॐ आं क्रों ह्रीं वैरोटिदेव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा।
साकेतनामकनृपस्य च सिंहसेन-नाम्नस्तनूजममरार्चितपादपद्मम्। संपूज्यामि विविधार्हणया ह्यनन्तनाथं चतुर्दशजिनं सलिलाक्षतौघैः॥14॥ ॐ ह्रीं अनन्तनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा।
सव्यैः कशाहलफलान्यपसव्यहस्तैर्बिभ्राणमंकुश सशूल सरोरुहाणि। पातालकं त्रिफणनागशिरस्त्रिवक्क्रमर्चाम्यनन्तजिनमादरतोर्चयन्तम्।।14।। ॐ आं क्रों ह्रीं पातालयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा।
अधिज्यधन्वोत्तममातुलुंगं, निशातबाणं दधीष्टदानम्। समर्चितानन्तमतिप्रसन्ना, भूयादिहानन्त जिनेशयक्षी।।14। ॐ आं क्रों ह्रीं अनन्तमति देव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा।
385