________________
दशान्तसुकेवलिनिर्णयकार ! निमित्तनिरूपमनिर्भरभार ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुखासुखकारणरूपतरङ्ग ! प्रकाशितबोधसुचन्द्रतरण्ड ! जयामरसेवितबोधविकाश ! समुज्ज्वलमुक्तिदपापविनाश!! सुजीवहिताहितकर्मविपाक ! नरेन्द्र ! महेन्द्र ! विभूतिपताक ! जयामरसेवित बोध विकाश ! समुज्ज्वल मुक्तिद पाप विनाश!!
अबोधतमोभरवारणसूर ! सुमुक्तिसुखामृतजीरधिपूर ! जयामरसेवित बोध विकाश ! समुज्ज्वल मुक्तिद पाप विनाश!!
धत्ता
अखिलनृपति सेव्यं मोहमातङ्गसिंह। परमपदविकाशं, बोधनं चिदस्वरूपं।। त्रिभुवनयशसे तत् कर्मदावाग्निमेथं। भजतिशिवपदं यः सेव्यते शास्त्रसा।।
गुणैर्गरिष्ठं भवनं गुणानां, स्वर्गादिदाने विदधाति दक्ष्य। करोतु बोधो भवतां नितान्तं, सारं च सौख्यं भवदुःखपारं।।
(इत्याशीर्वादः)
इयं पूजा जगत्सारा तेजपुञ्जसुपूरिता। ये पठन्ति श्रुताचार्यैस्तेषां स्यात् ज्ञानपञ्चकम्।। एषापूजा प्रमादेन वर्द्धमानेन वर्द्धिता। कृष्णादिवीरदासत्वं करोत्वह्ल सुभक्तितः।।
श्रुतसकलगुणाब्धिं ये श्रुतस्कन्धसारभिममपगतदोषं प्रार्थयन्तेऽतिभक्त्याः । नृसुरजिनगणेशाद्यैः पदैः सार्धमाशु, सकलविमलकी ते लभन्तेऽखिलार्थान्। एतद् भणित्वां श्रुतस्कन्धोपरि पुष्पाणिक्षिप्य पञ्चाङ्गं प्रणामं कुर्यात्।
इति श्रुतस्कन्ध पूजा सम्पूर्णा। (सम्वत् 1830 वर्षे मिति मृग शिरवदि द्वादशी रूपनगरे लिखि ता)
16