________________
सूरिभट्टारकाः एवं कथयन्ति स्म...
जैनशासनशृङ्गाराः सच्चिदानन्दमयाः अध्यात्मयोगिनः पूज्यपादाः गुरुवर्याः आचार्य प्रवराः श्रीमद् विजयकलापूर्णसूरीश्वरा: वांकी तीर्थ चातुर्मास्ये (वि.सं. २०५५, आ. ब. ७-८-९) प्ररूपितवन्तः
पूर्वाचार्याणां संरक्षण-विनियोगादिगुणत्वात् परम्परागतं किञ्चित् श्रुतज्ञानम् अस्माभिः लब्धम् । इयं श्रुतसमृद्धिः अस्माभिः अपि अस्मदनुगामिभ्यः देया । न दद्याम चेत् अपराधिनः वयं भाविप्रजादृष्ट्या इतोऽपि इदं शासनं सार्धाष्टादशसहस्त्रवर्षाणि यावद् इह स्थास्यति तच्च श्रुतज्ञानाधारेणैव ।
2
स्वाध्यायः किल साधूनां जीवनम् । स्वाध्यायसमये तु स्वाध्यायः करणीयः एव किन्तु अन्तराऽपि यदा यदापि समयो लभ्येत तदा तदाऽपि स्वाध्यायः करणीयः । प्रत्येकाऽवसरेषु यथा वणिग् लाभं पश्येत् तथैव
साधुरपि प्रत्येकाऽवसरेषु स्वाध्यायलाभं पश्येत् ।
संवर: निर्जरा च मुक्ति-मार्गः ।
स्वाध्यायात् संवर- निर्जरे भवतः । स्वाध्यायात् नवः नवः संवेगः उत्पद्यते । स्वाध्यायं विदधानः उल्लसितान्तकरणः साधुः चिन्तयति भगवत्कथितानि तत्त्वानि कीदृशानि अद्भुतानि ? अयं खलु संवेगः ।
3
स्वाध्यायात् भगवन्मार्गे निश्चलता उत्पद्यते । स्वाध्यायः किल महत् तपः । तपसा च निर्जरा जायते । • दानं कर्तुं कः प्रभवेत् ? धनवानेव । उपदेशं कर्तुं कः प्रभवेत् ? ज्ञानवानेव । वाचनादिपञ्चविधं स्वाध्यायं विदधाने साधौ उपदेशशक्तिः स्वयमेव प्रादुर्भवति ।
स्वाध्यायस्य सप्तमं फलं किल परोपदेश- शक्तिः । स्वाध्यायस्य सप्त महान्ति फलानि । तानि
चेमानि -
(१) आत्महितज्ञानम् ।
(२) पारमार्थिकः भावसंवरः ।
(३) नूतनज्ञानात् अपूर्वसंवेगवृद्धिः ।
(४) निष्कम्पत्वम् ।
(५) उत्कृष्टं तपः ।
(६) कर्म - निर्जरा ।
(७) परोपदेश शक्तिः ।
किञ्चिदपि ज्ञानं विनियोगार्थमेव भवति, न
स्वपार्श्वे सञ्चयनार्थमेव । अन्येभ्यः अदीयमानं ज्ञानं विनष्टं भविष्यति ।
धनमददानः कृपणः चेत् ज्ञानमददानः कथं न
कृपण: ?
अन्येभ्यो दानादेव अस्मज्ज्ञानं वृद्धि यायात् ।
४