________________
| सूरिभट्टारकाः एवं कथयन्ति स्म...
जैनशासनशृङ्गाराः सच्चिदानन्दमयाः अध्यात्मयोगिनः पूज्यपादाः गुरुवर्याः आचार्यप्रवराः श्रीमद् विजयकलापूर्णसूरीश्वराः वांकी तीर्थ- चातुर्मास्ये (वि.सं. २०५५, आ. ब. ७-८-९) प्ररूपितवन्तः -
. पूर्वाचार्याणां संरक्षण-विनियोगादिगुणत्वात् परम्परागतं किञ्चित् श्रुतज्ञानम् अस्माभिः लब्धम् । इयं श्रुतसमृद्धिः अस्माभिः अपि अस्मदनुगामिभ्यः देया । न दद्याम चेत् अपराधिनः वयं भाविप्रजादृष्ट्या । इतोऽपि इदं शासनं सार्धाष्टादशसहस्रवर्षाणि यावद् इह स्थास्यति तच्च श्रुतज्ञानाधारेणैव ।
. स्वाध्यायः किल साधूनां जीवनम् । स्वाध्यायसमये तु स्वाध्यायः करणीयः एव, किन्तु अन्तराऽपि यदा यदापि समयो लभ्येत तदा तदाऽपि स्वाध्यायः करणीयः ।
प्रत्येकाऽवसरेषु यथा वणिग् लाभं पश्येत् तथैव साधुरपि प्रत्येकाऽवसरेषु स्वाध्यायलाभं पश्येत् ।
• संवरः निर्जरा च मुक्ति-मार्गः ।
स्वाध्यायात् संवर-निजर भवतः । स्वाध्यायात् नवः नवः संवेगः उत्पद्यते । स्वाध्यायं विदधानः उालसितान्तकरण: साधुः चिन्तयति भगवत्कथितानि तत्त्वानि कीरशानि अद्भुतानि ? अयं खलु संवेगः ।
स्वाध्यायात् भगवन्मार्गे निश्चलता उत्पद्यते । स्वाध्यायः किल महत् तपः । तपसा च निर्जरा जायते । • दानं कर्तुं कः प्रभवेत् ? धनवानेव । उपदेशं कर्तुं कः प्रभवेत् ? ज्ञानवानेव ।
वाचनादिपञ्चविधं स्वाध्यायं विदधाने साधी उपदेशशक्तिः स्वयमेव प्रादुर्भवति ।
स्वाध्यायस्य सप्तमं फलं किल परोपदेश-शक्तिः ।
• स्वाध्यायस्य सप्त महान्ति फलानि । तानि चेमानि -
(१) आत्महितज्ञानम् । (२) पारमार्थिकः भावसंवरः । (३) नूतनज्ञानात् अपूर्वसंवेगवृद्धिः । (४) निष्कम्पत्वम् । (५) उत्कृष्टं तपः । (६) कर्म-निर्जरा । (७) परोपदेश-शक्तिः ।
• किञ्चिदपि ज्ञानं विनियोगार्थमेव भवति, न स्वपाश्र्वे सञ्चयनार्थमेव । अन्येभ्यः अदीयमानं ज्ञानं विनष्ट भविष्यति ।
धनमददानः कृपणः चेत् ज्ञानमददानः कथं न कृपणः?
अन्येभ्यो दानादेव अस्मज्ञानं वृद्धि यायात् ।