________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवंदनाय; निशम्य तीर्थांतिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे त्रिपञ्चसंख्या शततापसानां, तपःकृशानामपुनर्भवाय; अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे सदक्षिणं भोजनमेव देयं, साधर्मिकं संघसपर्ययेति; कैवल्यवस्त्रं प्रददौ मुनीनां, स गौतमो यच्छतु वाञ्छितं मे शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा; पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे त्रैलोक्यबीजं परमेष्ठिबीजं,
८७
For Private And Personal Use Only