________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बंधणे मोहणे थंभणे सव्वसत्ताणं अपराजिओ भवामि स्वाहा।
सिद्धचक्रस्तोत्रम् ऊर्ध्वाधोरयुतं सबिन्दुसकलं ब्रह्मस्वरावेष्टितं, वर्गापूरितमष्टपत्रममलं सत्सन्धितत्त्वार्पितम् । अन्तः पत्रतटेष्वनाहतपदं ह्रींकारसंवेष्टितं, देवं ध्यायति यः पुमान् स भवति वैरीभकण्ठीरवः. १ यद्वार्गाष्टकपूरितं वरदलं सानाहतं नीरजं यध्रौंकारकलापबिन्दुकलितं मध्ये त्रिरेखाञ्चितम् यत्सर्वार्थकरं परं गुणवतां कालत्रये वर्तिनां तत्क्लेशौघविनाशनं भवतु नः श्रीसिद्धचक्रेश्वरम्. शब्दब्रह्मैकलीनं प्रबलबलयुतं सर्वतत्त्वप्रभावं, सानन्दं सर्वभद्रं गणधरवलयं दुःखपाशप्रणाशनम् । यन्नैमित्तं वरिष्ठविपदि हृदि धृतं सज्जनानां च नित्यं तद् दत्तं यस्य बाहौ रिपुकुलमथनं सिद्धचक्रं नमामि. ३ यच्छुद्धं व्योमबीजं ह्यध-उपरि रा(या)न्त सिद्धाक्षरेण, यत्सन्धौ तत्त्वयुक्तं स्वरपरमपदैर्वैष्टितं मध्यबीजम
८४
For Private And Personal Use Only