________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यो गोप्यः सुदुष्प्राप्यः, श्रीऋषिमंडलस्तवः; भाषितस्तीर्थनाथेन, जगत्राणकृतेऽनघः रणे राजकुले वह्नौ, जले दुर्गे गजे हरौ; स्मशाने विपिने धोरे, स्मृतो रक्षति मानवम् राज्यभ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम्; लक्ष्मीभ्रष्टा निजां लक्ष्मी, प्राप्नुवन्ति न संशयः भार्यार्थी लभते भार्यां, सुतार्थी लभते सुतम्; विद्यार्थी लभते विद्यां, नरः स्मरणमात्रतः स्वर्णे रौप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत्; तस्यैवाष्ट महासिद्धि-गुहे-वसति शाश्वती भूर्जपत्रे लिखित्वेदं, गलके मूर्ध्नि वा भुजे; धारितं सर्वदा दिव्यं, सर्वभीति-विनाशकम् भूतैः प्रेतैर्ग्रहैर्यक्षैः, पिशाचैर्मुद्गलैर्मलैः, वातपित्तकफोद्रेकै-र्मुच्यते नात्र संशयः ॐ भूर्भुर्वः स्वस्रयी-पीठ-वर्तिनः शाश्वता जिनाः; तैः स्तुतैर्वन्दितैर्दृष्टै-र्यत्फलं तत्फलं स्मृतौ एतद् गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित्; मिथ्यात्ववासिने दत्ते, बालहत्या पदे पदे
६१
For Private And Personal Use Only