________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री-गोष्टिकानां शान्तिर्भवतु. श्री-पौरमुख्याणां शान्तिर्भवतु. श्री-पौरजनस्य शान्तिर्भवतु. श्री-ब्रह्मलोकस्य शान्तिर्भवतु. ॐ स्वाहा ॐ स्वाहा ॐ श्री पार्श्वनाथाय स्वाहा. एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुंकुम-चन्दन-कर्पूरागरु-धुपवास-कुसुमांजलिसमेतः स्नात्र-चतुष्किकायां श्रीसंघसमेतः शुचि-शुचि-वपुः, पुष्प-वस्त्र-चन्दना-भरणालंकृतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुद्घोष-यित्वा, शान्तिपानीयं मस्तके दातव्यमिति. नृत्यन्ति नृत्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मंगलानि; स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके. शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः; दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः. २ अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनि-वासिनी; अम्ह सिवं तुम्ह सिवं, असिवोवसमं सिवं भवतु स्वाहा. ३
४०
For Private And Personal Use Only