________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साल-त्रयेण भगवन्नभितो विभासि. दिव्य-स्रजो जिन! नमत्रि-दशाधिपानामुत्सृज्य रत्न-रचितानपि मौलि-बन्धान्, पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्संगमे सुमनसो न रमन्त एव. त्वं नाथ! जन्म-जलधेर्विपराङ्मुखोऽपि, यत्तारयस्यसुमतो निज-पृष्ठ-लग्नान्; युक्तं हि पार्थिव-निपस्य सतस्तवैव, चित्रं विभो यदसि कर्म-विपाक-शून्यः. विश्वेश्वरोऽपि जन-पालक! दुर्गतस्त्वं, किं वाक्षर-प्रकृतिरप्यलिपिस्त्वमीश!; अ-ज्ञानवत्यपि सदैव कथंचिदेव, ज्ञानं त्वयि स्फुरति विश्व-विकाश-हेतुः प्राग्भार-संभृतनभांसि रजांसि रोषादुत्थापितानि कमठेन शठेन यानि; छायापि तैस्तव न नाथ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा. यद् र्गज्जदूर्जित-घनौघ-मदभ्र-भीमं,
३३
For Private And Personal Use Only