________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नो गृह्यते विविध-वर्ण-विपर्ययेण? धर्मोपदेश-समये स-विधानुभावादास्तां जनो भवति ते तरुरप्यशोकः अभ्युद्गते दिनपतौ स-महीरुहोऽपि, किंवा विबोधमुपयाति न जीव-लोकः. चित्रं विभो! कथमवाङ्मुख-वृन्तमेव, विष्वक् पतत्यविरला सुर-पुष्प-वृष्टिः? त्वद्गोचरे सु-मनसां यदि वा मुनीश? गच्छन्ति नूनमध एव हि बंधनानि. स्थाने गभीर-हृदयोदधि-संभवायाः, पीयुषतां तव गिरः समुदीरयंति; पीत्वा यतः परम-संमद-संग-भाजो; भव्या व्रजन्ति तरसाप्यजरामरत्वम्. स्वामिन्! सु-दूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुर-चामरौघाः, येऽस्मै नतिं विदधते मुनि पुंगवाय, ते नुनमूर्ध्व-गतयः खलु शुद्ध भावाः. श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न
३१
For Private And Personal Use Only