________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम्; मुक्ताफल-प्रकर-जाल-विवृद्ध-शोभं, प्रख्यापयत्रिजगतः परमेश्वरत्वम्. उन्निद्र-हेम-नव-पंकज-पुंज-कान्ति, पर्युल्लसन्नख-मयूख-शिखाभिरामौ; पादौ पदानि तव यत्र जिनेन्द्र! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति. इत्थं यथा तव विभूतिरभूज्जिनेन्द्र!, धर्मोपदेशन-विधौ न तथा परस्य; यादृक् प्रभा दिनकृतः प्रहतान्धकारा, तादृक् कुतो ग्रह-गणस्य विकाशिनोऽपि? श्च्योतन्मदाविल-विलोल-कपोल मूलमत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम्; ऐरावताभमिभमुद्धतमापतन्तं, दृष्ट्वा भयं भवति नो भवदाश्रितानाम. भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्तमुक्ताफल-प्रकर-भूषित-भूमि-भागः; बद्ध-क्रमः क्रमगतं हरिणाधिपोऽपि, नाक्रामति क्रम-युगाचल-संश्रितं ते.
२४
For Private And Personal Use Only