________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीग्रहशान्ति स्तोत्र जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरू-भाषितम्; ग्रहशान्तिं प्रवक्ष्यामि, भव्यानां सुखहेतवे जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात्; पुष्पैर्विलेपनैधूप, नैवेद्यैस्तुष्टिहेतवे । पद्मप्रभस्य मार्तंड-श्चन्द्रश्चन्द्रप्रभस्य च; वासुपूज्यस्य भूपुत्रो, बुधस्याऽष्टौ जिनेश्वराः विमलानन्तधर्माऽराः, शान्तिः कुन्थुर्नमिस्तथा; वर्धमानो जिनेन्द्राणां, पादपद्मे बुधो न्यसेत् ऋषभाजितसुपार्थ्या-श्चाभिनन्दनशीतलौ सुमतिः संभवस्वामी, श्रेयांसश्च बृहस्पतिः सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्चरः, नेमिनाथस्य राहुः स्यात्, केतुः श्रीमल्लिपार्श्वयोः जन्मलग्ने च राशौ च, यदा पीडन्ति खेचराः; तदा संपूजयेद्धीमान्, खेचरैः सहितान् जिनान् पुष्पगंधादिभिधूपैर्नैवेद्यैः फलसंयुतैः, वर्णसदृशदानैश्च, वस्त्रैश्च दक्षिणान्वितैः (ॐ आदित्य सोम मंगल बुध गुरु शुक्र-शनैश्चरराहु केतु
१२०
For Private And Personal Use Only