________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1
श्रीदेवी स्तोत्रम्
सुरराजैः चतुःषष्ठ्या स्तूयमानगुणप्रभे । जय श्रीदेवि विश्वैकमातराश्रितवत्सले. हिमवच्छिखरे पद्मह्रदपद्मनिवासिनि । गौतमक्रमसेवैकरसिके विश्वमोहिनि. सूरिमन्त्रतृतीयोपविद्यापदनिवेशिते । सूरिराजहृदम्भोजविलासिनि चतुर्भुजे. श्रीचन्द्रप्रभभक्त्याऽतिपूते पद्माननेक्षणे ।
Acharya Shri Kailassagarsuri Gyanmandir
पद्महस्ते महारत्ननिधिराजिविराजिते.
गजयानेऽप्सरः श्रेणिगीतनाट्यादिरञ्जिते ।
सदाशिरोधृतछत्रचलच्चामरभासिते. श्रीजैनशासनानन्तमहिमाम्बुधिचन्द्रिके । नानामन्त्रैः समाराध्ये सुरासुरनरर्षिभिः विजया-जया-जयन्ती-नन्दा-भद्राद्युपासिते । स्मृतिस्तवनपूजाभिः सर्वविघ्नभयापहे . विश्वकल्पलते लक्ष्मि सर्वालङ्कृत्यलङ्कृते । शुद्धबोधिसमाधान सर्वसिद्धीः प्रयच्छ मे. स्तूयमाने महानेकमुनिसुन्दरसंस्तवैः ।
१११
For Private And Personal Use Only
१
२
3
४
५
६
७
८